Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

पृथिवीत्वपक्षकानुमाने हेतुविचारः

§50Mūla
न च पृथिवीत्वेतरत्वमुपाधिः । तस्य पक्षेतरत्वात् । अनुकूलतर्काणां वक्ष्यमाणत्वाच्च ।
न चेति ॥ यद्यपि पक्षे साध्यसन्देहान्न पक्षेतरत्वे साध्यव्यापकत्वनिश्चयः सम्भवति । तथापि तस्य सन्दिग्धोपाधित्वमव्याहतम् । न च तस्य न प्रतिपक्षोन्नायकत्वं, तदधीनप्रतिपक्षसन्देहस्य च साध्यसन्देहतया न विरोधित्वमिति वाच्यम् । स्वारसिकसन्देहस्याविरोधित्वेऽप्याहितसन्देहस्यानुमानविरोधित्वादिति भावः । पक्षेतरत्वस्य सन्दिग्धोपाधित्वेऽपि न दूषकत्वम् । अन्यथाऽनुमितिमात्रोच्छेदापत्तेरित्याशयेनाह- तस्येति ॥ नन्वनुकूलतर्कसत्त्व एव सन्दिग्धोपाधेरदूषकत्वम् । अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ वह्नीतरत्वोपाधेर्दूषकत्वानुपपत्तेरित्यत आह- अनुकूलतर्काणामिति ॥ विपक्षे गौरवप्रसङ्गरूपाणामित्यादिः ॥

Loading…