Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानान्तरविवरणम्

§51Mūla
एवं जलत्व-तेजस्त्व-वायुत्व-मनस्त्व-पक्षीकारेणानुमानचतुष्टयमूहनीयम् ॥
एवमिति ॥ 'जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं, जातित्वात् पृथिवीत्ववदित्यादिप्रकारेणेत्यर्थः । इदमुपलक्षणम् । पृथिवीत्वं जलाद्यवृत्तिद्रव्यवृत्तिकिञ्चिज्जातिमदवृत्ति, द्रव्यत्वव्याप्यजातित्वाज्जलत्वादिवत् । पृथिवीत्वं गन्धज्ञानान्यतरवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं, मेयत्वाद्घटत्ववदित्यादिकमप्यात्मत्वजातिसाधकमूहनीयम् ॥

Loading…