भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
§40Mūla
जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितम् । वाङ्मुखाद्वामुखं भूयात्प्रीत्यै माधवमध्वयोः ॥ छ ॥ इति श्रीमज्जयतीर्थमुनिविरचिता वादावली समाप्ता ॥ छ ॥
एवं समापितग्रन्थो भगवाञ्जयतीर्थमुनिः स्वकृतग्रन्थस्य समूलत्वं दर्शयन् भगवति गुरौ चार्पणं करोति ।। जयतीर्थेति । वाङ्मुखमुपन्यासः । उपन्यासस्तु वाङ्मुखमित्यभिधानात् । वाङ्मुखात्खण्डनत्रयतत्त्वोद्योतादि- भगवत्पादकृतोपान्यासात् । तत उद्धृत्येति यावत् । बालबोधनाय मूलग्रन्थेषु विक्षिप्योक्तानां बोधाय ससमर्थानां सतां बोधाय विनिर्मितं वाङ्मुखं माधवमध्वयोः प्रीत्यै भूयादित्यर्थः । अभ्यर्हितत्वान्माधवस्य पूर्वमुक्तिः || || सुधीन्द्रगुरुपादानां शिष्येण श्रीशतुष्टये । राघवेन्द्रेण यतिना कृतेयं भावदीपिका || छ । इति श्रीवादावलीभावदीपिका राघवेन्द्रयतिकृता समाप्ता ॥ छ ।