Join Tattvasudhā to study.

भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

§40Mūla

अत एव विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वात्सम्प्रतिपन्नवदित्याद्यनुमानं प्रत्यक्षबाधितं परस्परसुखदुःखाद्यनुसन्धानप्रसङ्गपराहतं चेति । विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वात्सम्प्रतिपन्नवदित्याद्यनुमानाभाससमानयोगक्षेमतयाऽपहास्यम् ॥छ।

यदप्यात्मनामभेदे परकीयानुमानमुक्तं तदपि निराह || अत एवेति । उक्तानुमानबाधादेवेत्यर्थः ।। प्रत्यक्षेति । सर्वशरीराणां तदीय- भोगायतनत्वाभावस्य प्रत्यक्षसिद्धत्वादिति भावः । अपहास्यमपहसितुं योग्यम् । परकीयात्माभेदानुमानमित्यर्थः । तस्माद्भेदादिप्रपञ्चस्य सत्यत्वा- त्सत्याशेषजगज्जन्मादिकर्ताऽनन्तकल्याणगुणो भगवान्नारायण इति सिद्धमिति तादृशगुणविशिष्टाय मुरद्विषे नमनमाद्यपद्ये युक्तमिति भावः ।। छ ||

Loading…