भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्
ननु संश्लिष्टोपाधित्वमनुसन्धाने प्रयोजकम् । तदभावात्प्रकृते नानुसन्धानमिति चेत् । किमुपाधिसंश्लेषमात्रं प्रयोजकमुत स्वरूपैक्ये सति । नाद्यः । मातृसुखादेर्गर्भस्थेनानुसन्धानप्रसङ्गात् । नोत्तरः । स्वरूपैक्यमात्रस्य प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणाभावात् । तस्मात्स्वरूपाभेदेऽनुसन्धानमपरिहार्यम् । तदेवं जीवेश्वरभेदस्योपाधिकत्वे स्वाभाविकाभेदेनेश्वरस्य जीवगतसुखदुःखाद्यनुसन्धानप्रसङ्गस्यावर्जनीयत्वात्तदङ्गीकारस्य च प्रमाणविरुद्धत्वात्स्वाभाविक एव जीवेश्वरभेदो न त्वौपाधिकः । किञ्च विमतो भेदः पारमार्थिकोऽसद्व्यतिरिक्तत्वाद्ब्रह्मवदित्यनुमान- बाधितत्वाच्च न भेदत्वसाधनं भेदमिथ्यात्वे मानमिति सिद्धम् ॥ छ ॥ भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम् ॥ छ ॥
अनुसन्धाने प्रयोजकान्तरमाशङ्कते ॥ ननु संश्लिष्टेति । हस्तपादादीनां संश्लिष्टत्वेनानुसन्धानयोगेऽपि प्रकृते जीवेश्वरयोर्विश्लिष्टोपाधित्वेनानुसन्धान प्रयोजकसंश्लिष्टोपाधिकृतभेदाभावादननुसन्धानमित्यर्थः ॥ गर्भस्थेनेति । उपाधिसंश्लेषस्य तत्रापि सत्त्वात् । उपपादितं तर्कमुपसंहरति ॥ तस्मादिति । स्वरूपैक्यादन्यस्य प्रयोजकत्वे प्रमाणाभावादित्यर्थः । अपर आहेत्यादिनोक्तचोद्यखण्डनमुपसंहरति ॥ तदेवमिति । तत्तस्मादित्युक्तं व्यनक्ति । जीवेत्यादिनाऽवर्जनीयत्वादित्यन्तेन । प्रसङ्गस्येष्टापादनरूपत्वं निराह । तदङ्गीकारस्येति । अनुसन्धानाङ्गीकारस्य तान्यहं वेद सर्वाणीत्यादिप्रमाणविरुद्धत्वादित्यर्थः । एवं भेदो मिथ्या भेदत्वादित्यनुमानस्य व्यभिचारमनुसन्धानरूपतर्कबाधं चोक्त्वाऽनुमानान्तरबाधकमप्याह । किञ्चेति || असद्व्यतिरिक्तत्वादिति । न च शुक्तिरूप्यादौ प्रातिभासिके व्यभिचारः । असदेवं रजतं प्रत्यभादित्यनुभवेन शुक्तिरूप्यादेर्भ्रमविषयस्य सत्त्वादिति भावः । भेदत्वसाधनं भेदत्वादिति भेदमिथ्यात्वसाधनत्वेनाभिमतं लिङ्गमित्यर्थः ॥ छ ।।