Join Tattvasudhā to study.

मङ्गलश्लोकः

§1Mūla

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे । सत्याशेषजगज्जन्मपूर्वकर्त्रे मुरद्विषे ॥ १ ॥

अमन्दानन्दसन्दोदेहाहायेन्दीवरत्विषे । इन्दिरास्याब्जपीयूषजुषे कंसद्विषे नमः ॥ १ ॥ प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् । वादावलीं यथाबुद्धि व्याख्यास्यामि सतां मुदे ॥ २॥ अथाऽतो ब्रह्मजिज्ञासेति भगवता सूत्रकृता जिज्ञासाहेतुभूतस्य गुणपूर्णत्वस्य सम्भावकतया जन्माद्यस्य यत इति द्वितीयसूत्रेण जगज्जन्मादिकर्तृत्वं लक्षणमभिहितम् । तच्च जगत्सत्यतामन्तरेण वास्तवं न भवति । सा च न परोदीरितजगन्मिथ्यात्वप्रमाणानामाभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभमाणो भगवाञ्जयतीर्थाचार्य वर्योऽविगीत शिष्टाचारपरम्पराप्राप्तं प्रारिप्सितपरिमाप्त्यादि प्रयोजनकं सूत्रद्वयोक्तगुणविशिष्ट- भगवन्नतिरूपं मङ्गलमादावाचरति ।। नम इति । मुरद्विषे विष्णवे नम इत्यन्वयः । नमः स्वस्ति स्वाहेत्यादिना चतुर्थी । अगणितैः केनाप्यसङ्ख्यातैः कल्याणगुणैर्ज्ञानानन्दबलैश्वर्यादिभिः पूर्णायेत्यनेन विष्णुवाचकब्रह्मशब्दार्थः कथितः । पूर्णपदेन च प्रत्येकं गुणानां निरवधिकत्वमाह । सत्त्वादीनां श्रुत्यादौ गुणत्वेन प्रसिद्धेर्दु:खद्वेषादीनां मतान्तरे गुणत्वेन परिगणनाच्च तव्ध्युदासाय कल्याणेति विशेषणम् । सत्यस्य परमार्थसतोऽशेष जगतो जन्मैव पूर्वं येषां स्थित्यादिनां तेषां कर्त्र इत्यर्थः । ननु जगतो मिथ्यात्वात्कथं तस्य जन्मादीत्यत उक्तं । सत्येति । तच्च साधयिष्यत इति । एतेनास्य ग्रन्थस्य सूत्रद्वयोक्तार्थसमर्थनार्थत्वेन तदेकदेशत्वा- तद्विषयादिनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिमत्त्वं सिद्धमिति सूचितं भवति । ननु जगज्जन्मपूर्वकर्त्र इत्यत्र कथं जन्मपूर्वाणां कर्तेति षष्ठीसमासः । कर्तृशब्दस्य तृजन्तत्वे तृजकाभ्यां कर्तरीति षष्ठीसमासनिषेधात् । तृन्नन्तत्वे च न लोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठ्या एव निषेधादिति चेत् । इत्थम् । तृजन्तत्वे याजकादित्वेन वा शेषषष्ठीत्वेन वा षष्ठीसमासः । तृन्नन्तत्वे च श्रितादिषु गमिंगम्यादीनामुपसङ्ख्यानमित्युक्तेर्द्वितीयातत्पुरुषो बोध्यः ।

Loading…