मिथ्यात्वसाधकानुमानभङ्गः
ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी । विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधा- दिति । मैवम् । मिथ्यात्वानिरुक्तेः ।
- सत्याशेषजगदित्यत्रोक्तं जगत्सत्यत्वमसहमानो विष्णोर्विश्वकर्तृत्वं मायिकमिति मन्वानो मायावादी प्रत्यवतिष्ठते । नन्विति ।। कथमित्याक्षेपो न कथमपीत्यर्थः । अङ्गीकाराधिकारिणी अङ्गीकाराधिकारवती । अभ्युपगम- योग्येत्यर्थः । कुत इत्याकाङ्क्षायां श्रुत्यादौ स्पष्टं मिथ्यात्वप्रतिपादनादानन्दबोधोक्तानुमानविरोधं तावदाह । विमतमिति । परिच्छिन्नत्वादित्यनन्तरं वाशब्दो ध्येयः । तेन नाधिक्यशङ्का कार्या । यद्यपीदमनुमानं स्वग्रन्थे पञ्चावयवात्मकतया प्रयुक्तं तथाऽप्यवयवत्रयेणैवानुमित्युपपत्ताववयवान्तरं व्यर्थमिति ज्ञापयितुं त्र्यवयवात्मकत्वेनोक्तम् । यद्वा भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोरसाधनत्वाङ्गीकारात्पञ्चावयवप्रयोगेऽधिकं निग्रहं सूचयितुं तथोक्तमिति । विमतं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम् । ब्रह्मासत्प्रातिभासिकान्यद्विश्वमित्यर्थः । अत्र वियदादीति पक्षनिर्देशेऽवच्छेद काभावादसङ्कुचितेनादिशब्दे - नात्मशुक्तिरूप्ययोर्ग्रहणापत्त्यांऽशतो बाधसिद्धसाधनते स्याताम् । विश्वमिति पक्षनिर्देशे च विश्वशब्देन वियदाद्यन्यतत्समुदायोक्तौ वियदादिमिथ्यात्वासिद्धेः । वियदादीनामेवोक्ता- ववच्छेदकाभावेन पूर्वोक्तदोषतादवस्थ्यात् । वियदित्येव पक्षनिर्देशे च घटादौ व्यमिचारात् । तस्य च पक्षतुल्यत्वे निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यात् । अतो विमतमिति विमतिः पक्षतावच्छेदकी कृता । ननु विमतेरपि ब्रह्मासत्प्रातिभासिकसाधारण्या अपि सम्भवेन विमति विषयत्वमतिप्रसक्तम् न पक्षतावच्छेदकं भवितुमर्हति । किञ्च धर्मितावच्छेदकमगृहीत्वा विमतिविषयत्वमेव दुर्ग्रहमिति तद्ग्रहणस्यावश्यकत्वेन प्रथमोपस्थितत्वेन तदेव पक्षतावच्छेदकत्वेन निर्देशार्हं न विमतिविषयत्वमिति चेत् । सत्यम् । ब्रह्मासत्प्रातिभासिकान्यत्वं वा सप्रकारकज्ञानाबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत्वं वाऽवच्छेदकं सम्भवति । विमतिश्च तदवच्छेदेनानतिप्रसक्ता । तथाऽपि तद्विषयत्वमेव लाघवात्पक्षतावच्छेदकं न त्वन्यद्गौरवादिति विमतमित्येवोक्तम् । एवं विमतं सत्यमित्यादिसिद्धान्तानुमानेष्वपि पक्षनिर्देशाभिप्रायो बोध्यः । दृश्यत्वात् दृग्विषयत्वादित्यर्थः । शुक्तिरजतवदिति । शुक्त्यध्यस्तरजतवदित्यर्थः । पूर्वपक्षं प्रतिक्षिपति ॥ मैवमिति । कुत इत्यतः प्रथमप्राप्तत्वात्प्रतिज्ञांशं तावद्दुदूषयिषुः साध्यस्य दुर्वचत्वादित्याह । मिथ्यात्वेति । निर्दोषमिथ्यात्वनिर्वचनासम्भवादित्यर्थः । तथा चाप्रसिद्धविशेषणमनुमामिति भावः ।