Join Tattvasudhā to study.

मिथ्यात्वसाधकानुमानभङ्गः

§2Mūla

तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा I नाद्यः | विकल्पासहत्वात् ॥

अनिरुक्तिमेव सिषाधयिषुः साध्यं विकल्पयति ।। तत्किमित्यदिना । अप्रसिद्धेः पक्षान्तरमाह । असत्त्वं वेति । मानबाधात्कल्पान्तरमाह ॥ सद्विविक्तत्वं वेति । सद्भिन्नत्वमित्यर्थः । सतोऽपि सदन्तरविविक्तत्वेनार्थान्तरत्वादाह || प्रामाणाविषयत्वमिति । व्यवसायद्वाराऽनुव्यवसायरूपप्रमाणविषयत्वस्यैव शुक्तिरूप्यादौ सत्त्वेन साध्यवैकल्यादाह ॥ अप्रमाणेति । ब्रह्मणो भ्रमाधिष्ठानत्वेनाप्रमाण विषयत्वादाह || अविद्येति । अविद्यातत्कार्यान्यान्यत्वमित्यर्थः । अनादिजीवब्रह्मविभागादावभावादाह || स्वेति । स्वस्य योऽत्यन्ताभावस्तत्समानाधिकरणतया तदेकाधिकरणतया प्रतीयमानं तस्य भावस्तत्त्वमित्यर्थः । अत्र स्वान्त्यताभावसामानाधिकरण्यं मिथ्यात्वमित्युक्ते सिद्धान्ते शुक्तिरूप्यस्यासत्त्वेन स्वात्यन्ताभावेनैकाधिकरण्यासिध्या साध्यवैकल्यमतः प्रतीयमानत्वमिति । न च संयोगवदव्याप्यवृत्तित्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति वाच्यम् । संयोगतदत्यन्ताभावयोरवच्छेदकभेदेनैव प्रतीत्या सत्यत्वपक्षे तयोः सामानाधिकरण्यायोगादित्यभिप्रायात् । नन्वधिरकणशब्देन तात्त्विकाधिकरणोक्तौ तत्त्वतः स्वाधिकरणे स्वात्यन्ताभावसामानाधिकरण्यस्य विरोधादतात्त्विकाधिकरणोक्तौ सिद्धसाधनात्कथमयं कल्प इति चेत् स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वस्य विवक्षितत्वात् । तत्राद्यं निराह || नाद्य इति । तत्र हेतुमाह । विकल्पेति । विकल्पं न सहत इति विकल्पासहस्तत्त्वादित्यर्थः । विकल्पे कृते तत्रैकोऽपि कल्पो नाङ्गीकर्तुं योग्य इत्यर्थः ।

Loading…