Join Tattvasudhā to study.

अनिर्वाच्यत्वभङ्गः

§3Mūla

तथा हि । अनिर्वचनीयत्वं किं निर्वचनविरहो वा निर्वाच्यविरहो वा । नाद्यः । स्वाभ्युपगतव्यवहारविषयत्वविरोधात् । द्वितीये सत्वविरहो वाऽसत्त्वविरहो वा । नाद्यः । असतोऽनिर्वाच्यतापातात् । नोत्तरः । ब्रह्मणोऽनिर्वाच्यतापातात् । अथ सदसद्वैलक्षण्यमनिर्वाच्यत्वमिति मतं तदाऽस्माभिर्जगतः सदसद्रूपताऽनभ्युपगमात्सिद्धसाधनता । अथ प्रत्येकमुभयवैलक्षण्यं विवक्षितं तथाऽप्यसद्ब्रह्मवैलक्षण्याभ्युपगमेन प्रस्तुत - दोषानिस्तारः । एतेन सदसत्त्वानधिकरणत्वमनिर्वचनीयत्वमित्यपास्तम् । प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्त ( वादिन) वेदिनः || इति चेन्न । तादृशवस्तुनोऽ (प्र) सिद्धत्वेनाप्रसिद्धविशेषणत्वात् । असत्त्व- विरहे सत्त्वस्य सत्त्वविरहेsसत्त्वस्य ( निपतितत्वे) नियतत्वेनोभयविरहितत्वं व्याहतमेव ।

- लक्षणप्रमाणाभ्यां वस्तुसिद्धेरनिर्वचनीये च तयोरभावात्तदप्रसिद्धमिति भावेन लक्षणं तावद्दूषयितुं प्रतिजानीते ।। तथा हीति ।। अनिर्वचनीयमित्यत्र नञ्तत्पुरुषबहुव्रीही आश्रित्य निर्वचनरूपाभिलपनाभावो वा निर्वचनयोग्यार्थशून्यत्वं वेति भावेन विकल्पयति ।। किमिति ।। स्वेति ।। शुक्तिरूप्यं प्रपञ्चोऽनिर्वचनीयमित्यादिव्यवहारविषयत्वस्याभ्युपगमान्मूकोऽहमितिवत् स्वक्रियाविरोध इत्यर्थः । अर्थशून्यत्वमित्यत्रापि द्वेधा विकल्पमाह ।। सत्त्वेति ।। क्रमेण द्वावपि दूषयति ।। नाद्य इत्यादिना ।। उपलक्षणं चैतत् । सदसदुभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति च बोध्यम् । न चासतो निस्स्वरूपत्वाद् ब्रह्मणश्च निर्धर्मकत्वात्कथं तत्र सत्त्वविरहासत्वविरहौ धर्मौ स्यातामिति वाच्यम् । तयोर्निस्स्वरूपत्व-निर्धर्मकत्वरूपधर्मवत्त्वयोच्यमान धर्मनिषेधवच्च सत्त्वविरहासत्त्वविरहरूपधर्मयोरप्युपपत्तेः । अन्यथाऽसद्ब्र्ह्मणोः सत्त्वासत्त्वे स्यातामिति भावः । ननु सदसद्वैलक्षण्यं तत्त्वं विवक्षितम् । एवञ्चासति सद्वैलक्षण्यस्य ब्रह्मण्यसद्वैलक्षण्यस्य सत्त्वेऽपि नोभयवैलक्षण्यमस्तीति शङ्कते ।। अथेति ।। सत्त्वे सति यदसदुभयात्मकं तद्वैलक्षण्यमनिर्वाच्यत्वमित्यर्थ उत सद्विलक्षणत्वे सत्यसद्विलक्षणत्वमिति वैलक्षण्यसमुच्चयो वेति विकल्प्याद्यं दूषयति ।। तदेति ।। तर्हीत्यर्थः । सदेकरूपताऽभ्युपगमेनेति भावः । द्वितीयं शङ्कते ।। अथेति ।। दूषयति ।। तथाऽपीति ।। असद्ब्रह्मभ्यां वैलक्षण्याभ्युपगमेनेत्यर्थः । ब्रह्मणः सत्त्वादिति भावः ।। प्रस्तुतेति । सिद्धसाधनत्वमित्यर्थः । उपलक्षणमेतत् । उभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वं च बोध्यम् । न च सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सत्युभयवैलक्षण्यं विवक्षितमिति वाच्यम् । केवलसत्त्वेनाप्युपपत्तेः । ननु सत्त्वासत्त्वानधिकणत्वं विवक्षितम् । एवञ्च जगतो ब्रह्मवैलक्षण्येऽपि सत्त्वाधिकरणत्वान्नोक्तदोष इत्याशङ्क्याह ।। एतेनेति ।। सदसद्वैलक्षण्यदूषणेनेत्यर्थः । तथा हि सत्त्वविशिष्टासत्त्वानधिकाणत्वं वा प्रत्येकं सत्त्वानाधिकरणत्वे सत्यसत्त्वानधिकरणत्वं वा सत्त्वानाधिकरणत्वे सत्यसत्त्वानधिकरणत्वे सति सदसत्त्वानधिकरणत्वं वा । नाद्यः । सत्त्वैकाधिकरणत्वेन सदसत्त्वानधिकरणत्वाभ्युपगमेन सिद्धसाधनत्वात् । न द्वितीयः । असत्त्वानधिकरणत्वांशमादायांशतः सिद्धसाधनात् । किञ्च निर्धर्मकब्रह्मवत्सत्त्वादिराहित्येऽपि सद्रूपत्वोपपत्त्याऽर्थान्तरत्वं च । सत्त्वादिधर्माणामननुगतत्वेन ब्रह्मगतसत्त्वानधिकरणत्वेनासत्त्वानधिकरणत्वेन चोक्तदोषादित्यर्थ इत्यप्याहुः । न तृतीयः । केवलसत्त्वाधिकरणत्वेऽप्युपपत्त्याऽर्थान्तरत्वादिति । ननु सत्त्वेनासत्त्वेन च विचारासहत्त्वं तत्त्वम् । एवञ्च नोक्तदोष इत्याशङ्क्यानुक्तोपालम्भताव्युदासाय चित्सुखोक्तवचनमेव पठति ।। प्रत्येकमिति ।। सदसत्त्वाभ्यामित्युपलक्षणम् । सदसत्त्वेन चेत्यपि बोध्यम् ।। अप्रसिद्धत्वेनेति ।। तत्प्रसिद्धिसाधकानुमानस्य चाग्रे निरासादिति भावः ।। अप्रसिद्धेति ।। विमतं मिथ्येत्यत्र सत्त्वेनासत्त्वेन सदसत्त्वेन च विचारासहमिति साध्यनिर्देशः स्यात् । तथा चाप्रसिद्धत्वमित्यर्थः । किञ्च सत्त्वेनासत्त्वेन चेत्यत्र सत्त्वासत्त्वयोः परस्परप्रतिषेधानात्मकयोः पारिभाषिकयो राहित्यविवक्षायां सिद्धसाधनम् । अस्मदभिमतयो राहित्यविवक्षायां त्वस्माभि र्लाघवादवश्यकत्वाच्च सत्त्वाभाव एवासत्त्वमिति स्वीकारात् । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वान्मे माता वन्ध्येतिवद्व्याघात इत्याह ।। असत्त्वेति ।। निपतितत्वेन प्राप्तत्वेनेत्यर्थः । नियतत्वेनेति पाठे आवश्यकत्वेनेत्यर्थः । यद्वा सत्त्वासत्त्वयोः परस्परविरहव्याप्यत्वमित्यभिप्रेत्य व्याघातोक्तिरियं बोध्या । व्याप्तिश्चाग्रे आत्मादौ साधयिष्यत इति भावः । तथा चासत्त्वविरहस्य सत्त्वव्याप्यत्वेनासत्त्वविरहं व्याप्यमङ्गीकृत्य तद्व्यापकं सत्त्वमङ्गीकृत्य सत्त्वविरहेऽङ्गीकृते व्याघात इत्यर्थः । यद्वाऽसत्त्वविरहमङ्गीकृत्य पुनः सत्त्वविरहेऽङ्गीक्रियमाणे सत्त्वविरहव्यापकस्यासत्त्वस्य चाङ्गीकर्तव्यत्वेन पूर्वाङ्गीकृतस्यासत्त्वविरहस्य परित्यागादङ्गीकृतपरित्यागेन व्याघात इत्यर्थः ।

Loading…