Join Tattvasudhā to study.

अनिर्वाच्यत्वभङ्गः

§3Mūla

ननु निषेधसमुच्चयस्य तात्त्विकत्वानभ्युपगमान्न व्याघातः । तत्तत्प्रतियोगिदुर्निरूपतामात्रप्रकटनाय तत्तद्विलक्षणताभिलापादिति चेन्न । तथा सति तस्यानिर्वचनीयतापातात् । यथा खलु सत्त्वासत्त्वे भवन्मते दुर्निरूपत्वान्न जगतो विद्येते तथाऽनिर्वचनीयताया अपि दुर्निरूपत्वेन तदभावो ध्रुवः स्यात् । असत्त्वविरहे सत्त्वमित्यादिव्याप्त्यसिद्धेर्न व्याहतिरिति चेन्न । आत्मादौ व्याप्तिसम्भवात् ।

ननु सत्त्वनिषेधासत्त्वनिषेधयोस्तात्त्विकत्वे स्यादयं दोषो न त्वतात्त्विकत्वे । न हि ह्रदादावारोपितं वह्निमङ्गीकृत्य वन्ह्यभावेऽङ्गीकृते व्याघातोऽस्तीति भावेन शङ्कते ।। नन्विति ।। निषेधेति ।। सत्त्वविरहासत्त्वविरहरूपनिषेधद्वयस्येत्यर्थः ।। तात्त्विकत्वानभ्युपगमादिति । न हि केनापि रूपेण दुर्निरूपस्य प्रपञ्चस्य सदसद्विलक्षणत्वादिकं किमपि रूपं वास्तवमस्तीति भावः । नन्वेवं प्रपञ्चे सत्त्वविरहासत्त्वविरहसाधनं किमर्थमित्यत आह ।। तत्तदिति ।। तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः । सत्त्वासत्त्वयोरित्यर्थः ।। मात्रेति ।। न तु सत्त्वविरहासत्त्वविरहयोस्तात्त्विकत्वायेत्यर्थः ।। तत्तदिति ।। सदसद्विलक्षणत्वस्येत्यर्थः । निषेधति ।। नेति । कुत इत्यत आह ।। तथा सतीति । सदसद्वैलक्षण्यस्यातात्त्विकत्वे सति । तस्य सदसद्वैलक्षण्यस्य । प्रपञ्चवदेव केनापि रूपेण निर्वचनायोग्यता स्यात् । न ह्यतात्त्विकस्य किञ्चिदपि रूपं वास्तवमस्तीति त्वयैवोक्तेरित्यर्थः । प्रपञ्चगतसदसद्वैलक्षण्यस्याप्यनिर्वचनीयत्वे को दोष इत्यत आह ।। यथेति । खल्विति दृष्टान्तस्य सुप्रसिद्धतामाह ।। अनिर्वचनीयताया इति । जगत इत्यनुकर्षः ।। तदभाव इति । सदसद्वैलक्षण्याभाव इत्यर्थः । ध्रुव इत्यनेनेदं सूचयति सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्यानिर्वाच्यत्वे उक्तरीत्या जगतः सदसद्वैलक्षण्याभावेन सत्त्वासत्त्वे एव ध्रुवे स्याताम् । अभावाभावे भावनियमात् । एवञ्चादावेव जगतः सदसदात्मकत्वमङ्गीकार्यम् । किञ्च यथा प्रपञ्चे सदसद्वैलक्षण्ये अङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारस्तथा सत्त्वासत्त्वे एवाङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारः कार्यः । एवञ्च चतुर्थः प्रकारोऽपि नाङ्गीकर्तव्य इति लाघवं च स्यात् । किञ्च सत्त्वविरहासत्त्वविरहयोर्द्वयोरप्यतात्त्विकत्वमुच्यत उतान्यतरस्यातात्त्विकत्वम् । नाद्यः । सत्त्वासत्त्वयोस्तात्त्विकत्वस्य ध्रुवत्वेन तयोर्दुर्निरूपत्वस्याप्ययोगात् । उभयतात्त्विकत्ववदुभयविरहातात्त्विकत्वस्यापि विरोधाच्च । न द्वितीयः । तत्प्रतियोगिनोः सत्त्वासत्त्वयोरन्यतरतात्त्विकस्य ध्रुवत्वापत्तेः । अतात्त्विकात्यन्ताभावप्रतियोगिनस्तात्त्विकत्वनियमादिति । ननु यदुक्तमसत्त्वविरहे सत्त्वस्य सत्त्वविरहेऽसत्त्वस्य नियतत्वेनोभयविरहितत्वं व्याहतमेवेति तदयुक्तम् । व्याप्त्यसिद्धेः । न तावत्प्रपञ्चे व्याप्तिग्रहः । तस्य पक्षत्वात् । नापि शुक्तिरूप्ये । तस्य त्वन्मतेऽसत्त्वात् । मन्मते चोभयविलक्षणत्वात् । नाप्यसति । तत्र सत्त्वाभावात् । नाप्यात्मनि । तत्र सत्त्वस्यात्मत्वप्रयुक्तत्वेनासत्त्वविरहाप्रयुक्तत्वादित्यभिप्रायं हृदि निधाय शङ्कते ।। असत्त्वेति । इत्यादीत्यादिशब्देन सत्त्वविरहेऽसत्त्वमित्यस्य ग्रहणम् । यद्यपीदं चोद्यं व्याहतमेवेतिवाक्यानन्तरमेव कार्यम् । व्याहत्युपपादकहेत्वसिद्ध्यर्थत्वात् । न तु निषेधेत्यादिचोद्यमुदीर्य तेनैतच्चोद्यसमाधानानन्तरं कर्तव्यम् । तथाऽपि व्याप्तौ वक्तव्यस्य बहुत्वेन व्यवधानेनात्र चोद्यं कृतमिति न दोषः । यद्वोक्तव्याहतिं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्याभावे सदसदात्मकत्वमेव ध्रुवं स्यादित्युक्तदोषमप्युद्धर्तुमत्र कृतमिति बोध्यम् । निषेधति ।। नेति । हेतुमाह ।। आत्मादाविति । आदिशब्देनासत्परिग्रहः । असत्त्वविरहे सत्त्वमित्यस्यात्मनि सत्त्वविरहेऽसत्त्वमित्यस्यासति व्याप्तिग्रहसम्भवादित्यर्थः ।

Loading…