अनिर्वाच्यत्वभङ्गः
तत्रात्मत्वप्रयुक्तं सत्त्वमिति चेत्किं तदात्मत्वम् । घटादिव्यावृत्ताऽऽत्मवृत्तिर्जातिर्वा किंवा सत्त्वं उताबाध्यत्वं ज्ञानत्वं वा ज्ञानाधारत्वं वा स्वप्रकाशत्वं वा आत्मपदवाच्यत्वं वा तल्लक्ष्यत्वं वा । नाद्यः । आत्मन एकत्वेन तत्र जातेरयोगात् । कल्पितात्मभेदसद्भावान्नैवमिति चेन्न । कल्पितात्मनां पक्ष ( कुक्षि) निक्षिप्ततया तस्यानुपाधित्वात् । न द्वितीयः । साद्ध्याविशिष्टत्वात् ।
आत्मनि सत्त्वे आत्मत्वमेव प्रयोजकं न त्वसत्त्वराहित्यम् । एवञ्च विमतं सत् असत्त्वविरहितत्वादित्यनुमानं सोपाधिकमिति स्वहृद्गतमाशयमुद्धाटयति ।। तत्रेति । आत्मनीत्यर्थः । तथा च सत्त्वेऽसत्त्वविरहस्याप्रयोजकत्वेनोभयराहित्यं न व्याहतमिति भावः । साध्याव्यापकत्वसाधनव्यापकत्वे वक्तृमात्मत्वं विकल्पयति ।। किं तदित्यादिना । अत्र यद्यपि सत्त्वासत्त्वयोः परस्परविरहात्मकत्वादसत्त्वविरह एव सत्त्वं सत्त्वविरह एवासत्त्वमित्युभयविरहित्वं माता वन्ध्येतिवव्द्याहतमित्येव वक्तृं शक्यम् । एवञ्चात्मत्वस्योपाधित्वशङ्काऽपि नोदेतीति महता प्रयत्नेनोपाधिनिरासेन व्याप्तिव्युत्पादनं च न कार्यम् । वक्तव्यं चैवमेव । अन्यथाऽग्रे प्रत्यक्षबाधकथनावसरे आत्यन्तिकनिषेधाप्रतियोगित्वलक्षणाबाध्यत्वरूपसत्त्वस्य प्रत्यक्षग्राह्यतासमर्थनानुपपत्तेः । अनिर्वाच्यत्वानुमानेऽविरुद्धत्वस्योपाधित्त्वोद्भावनानुपपत्तेश्च । अत एव न्यायामृते त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता । सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी । इत्यसत्त्वविरहित्वमेव सत्त्वमुक्तम् । तथाऽपि सत्त्वप्रयोजकस्यात्मत्वस्य प्रपञ्चेऽभावात्सत्त्वमपि न स्यादिति पराभि(हितं)मतं प्रपञ्चसत्त्वनिषेधकं युक्त्यन्तरमप्यपाकर्तुं परमते आत्मत्वखण्डनार्थं आत्मत्वानाधारत्वरूपजडत्वहेतुखण्डनार्थं विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यग्रे वक्ष्यमाणसिद्धान्तानुमाने हेतोरप्रयोजकत्वशङ्कानिरासाय चैवमुक्तमिति न दोषः ।। किं तदिति । त्वया प्रयोजकत्वेनोक्तमित्यर्थः । घटाद्यनात्मन्यविद्यमानाऽऽत्ममात्रवृत्तिर्जातिरित्यर्थः । घटादिव्यावृत्तेति साधनाव्यापकत्वाय ।। अबाध्यत्वमिति । बाध्यत्वाभाव इत्यर्थः । ज्ञानाधारत्वं ज्ञानसमवायित्वम् ।। तल्लक्ष्यत्वमिति । आत्मपदलक्ष्यत्वमित्यर्थः ।। आत्मन एकत्वेनेति । त्वन्मते जीवात्मपरमात्मनां तत्त्वतो भेदाभावेनात्मन एकव्यक्तित्वान्नित्यमेकमनेकानु गतं सामान्यमिति सामान्यलक्षणस्यात्मत्वेऽभावेन जातित्वायोगात् । अन्यथा व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिरित्यत्र जातिबाधकत्वेनोक्तव्यक्त्यभेदस्य जातिबाधकताभङ्गात् । तथा च साध्याव्यापकत्वमिति भावः । ननु तत्त्वतो भेदाभावेऽपि कल्पितभेदवतां जीवात्मनामनेकेषां भावान्नोक्तदोष इत्याशङ्क्य निषेधति ।। कल्पितेति ।। कल्पितात्मनां कल्पितभेदवतां जीवात्मनां मिथ्यात्वेन विमतं सत् असत्त्वविरहितत्वादात्मवदित्यनुमाने पक्षतावच्छेदकविमत्याक्रान्तत्वेन तत्र विद्यमानस्यात्मत्वस्य पक्षैकदेशाव्यावृत्त्या सत्त्वे तस्यात्मत्वस्य प्रयोजकत्वासम्भवादित्यर्थः ।