Join Tattvasudhā to study.

अनिर्वाच्यत्वभङ्गः

§3Mūla

न तृतीयः । असति व्यभिचारात् । तस्यापि बाध्यत्वे नासत्त्वस्यास्ति बाधकमित्यात्मवचनविरोधात् । न चतुर्थः । पक्षैकदेशा- व्यावृत्तेः । न पञ्चमः । आत्मन्यभावात् । तद्वतस्तस्य पक्षनिक्षेपात् । न षष्ठः। स्वप्रकाशताया उपर्यपाकार्यत्वात् । न सप्तमः । आत्मन्यभावात् । नान्त्यः । पक्षाव्यावृत्तेः ॥

।। व्यभिचारादिति । प्रसक्तस्यैव बाध्यत्वेनानिर्वचनीयख्याति वादिमतेऽसतोऽप्रसक्त्या तत्र बाध्यत्वाभावे विद्यमानेऽपि सत्त्वाभावाव्द्यभिचार इत्यर्थः । असतो बाध्यत्वाङ्गीकारे स्ववचनविरोधमाह ।। तस्यापीति ।। पक्षैकदेशाव्यावृत्तेरिति । ज्ञानत्वस्य पक्षभूतप्रपञ्चान्तर्गतवृत्तिरूपज्ञाने सत्त्वेन तदभावरूपोपाध्यभावेन प्रपञ्चे सत्त्वाभावे साधनीये भागासिद्ध्या दूषकताबीजस्य सत्प्रतिपक्षोत्थापकत्वस्यायोगेन सत्त्वे ज्ञानत्वरूपात्मत्वस्योपाधित्वायोगादित्यर्थः । ननु साङ्ख्यवेदान्तिनां तु करणव्युत्पत्त्या बुद्धिवृत्तिर्न ज्ञानमिति विवरणोक्तेर्वृत्तेर्ज्ञप्तित्वं नेति नोक्तदोष इति चेन्न । वृत्तेर्ज्ञानत्वाभावे परोक्षवृत्तिविषयेष्वज्ञाननिवृत्तिव्यवहारस्मृतीनामनुपपत्तेः । तासां ज्ञप्तिकार्यत्वात् । धर्माधर्मादिकं जानामीति वृत्तेर्ज्ञप्तित्वावगाह्यनुभवविरोधादिति भावः । पक्षैकदेशाव्यावृत्तेरित्युपलक्षणम् । आत्मरूपं ज्ञानं किं स्वविषयं परविषयं वेत्यादिना जडत्वहेतुदूषणप्रस्तावे वक्ष्यमाणरीत्याऽऽत्मनो ज्ञानत्वाभावेन साध्याव्यापकत्वादित्यपि बोध्यम् । एतेनानन्दत्वमात्मत्वमित्यपि परास्तम् । पक्षभूतप्रपञ्चान्तर्गतजन्मादिमतो वैषयिकानन्दरूपपक्षैकदेशादव्यावृत्तत्वेनोक्तदोषात् । न च विवरणे संसारे विषयैरभिव्यज्यमानमप्यात्मस्वरूपं सुखमेवेत्युक्तत्वेन वैषयिकानन्दस्यात्मस्वरूपत्वेन पक्षान्तर्गततैव नेति नोक्तदोष इति वाच्यम् । तथात्वे नीरपानजात्क्षीरपानजं सुखमधिकमित्यनुभवेन सैषानन्दस्य मीमांसेत्यादिश्रुत्या साधनतारतम्यादियुक्त्या च सिद्धस्यानन्दतारतम्यस्यानुपपत्तेः । न चाभिव्यक्तितारतम्यमेव न त्वानन्दतारतम्यमिति वाच्यम् । अखण्डे स्वरूपानन्देऽभिव्यक्तितारतम्यस्याप्ययोगात् । न च दुःखाभावतारतम्येन तदुपपत्तिः । दुःखस्य सर्वात्मनाऽभावेऽपि सुखतारतम्यानुभवात् । अन्तःकरणवृत्तिज्ञानवत्तद्वृत्तिरूपसुखाभावेऽहं सुखीत्यनुभवायोगात् । मुमुक्षोर्वैषयिकसुखे वैराग्यानुपपत्तेश्च । आनन्दत्वस्य सत्त्वेऽप्रयोजकत्वाच्चेति ।। आत्मन्यभावादिति । शुद्धात्मनो ज्ञानरूपत्वेन तदाधारत्वस्य त्वन्मतेऽभावेन साध्याव्यापकत्वादित्यर्थः । ननु कल्पितात्मनां तदाधारत्वमस्तीत्यत आह ।। तद्वत इति । ज्ञानवत इत्यर्थः । तस्यात्मनः । तथा च ज्ञानाधारत्वस्य पक्षैकदेशादव्यावृत्तेस्तुरीयपक्षोक्तदोष इत्यर्थः । एतेन ज्ञातृत्वमात्मत्वमिति निरस्तम् । शुद्धात्मन्यभावात् । तद्वतस्तस्य पक्षनिक्षेपादिति ।। उपरीति । दृश्यत्वहेतुदूषणावसर इत्यर्थः । तथा च साध्याव्यापकतेति भावः ।। आत्मनीति । त्वन्मते आत्मनः सर्वशब्दावाच्यत्वेनात्मपदवाच्यत्वाभावात्साध्याव्यापकत्वेन नोपाधित्वमिति भावः । आत्मशब्दवाच्ये देहादौ सत्त्वेन पक्षैकदेशादव्यावृत्तेश्चेत्यपि बोध्यम् ।। पक्षाव्यावृत्तेरिति । अनात्मनोऽप्यात्मपदलक्ष्यत्वस्य भावेन साधनव्यापकत्वमिति भावः । एतेनात्मपदप्रतिपाद्यत्वमात्रमात्मत्वमित्यपि निरस्तम् । तत्पदलक्ष्येन्द्रियादौ सत्त्वेन पक्षैकदेशादव्यावृत्तेः । एतेनाहन्त्वमात्मत्वमित्यपि परास्तम् । पक्षैकदेशादहङ्कारादव्यावृत्तेः । आत्मन्यभावाच्च । न च प्रत्यक्त्वं वा चेतनत्वं वाऽऽत्मत्वमिति वाच्यम् । उक्तकल्पेभ्यस्तयोर्बहिर्भावाभावात् ।

Loading…