Join Tattvasudhā to study.

अनिर्वाच्यत्वभङ्गः

§3Mūla

न च वाच्यमात्मादौ न विकल्पोऽवकल्पते तस्य तवापि सिद्धत्वादिति । अस्माभिरुक्तप्रकारान्यतरस्वीकारेऽपि त्वन्मते दोषग्रासा- निस्तारात् । तस्मादसत्त्वविरहे सत्त्वमित्यादिव्याप्तिसिद्धेरुभयविरहित्वं व्याह - तमेवेति सिद्धम् ।

नन्वात्मत्वखण्डनं स्वव्याहतम् । तस्य त्वयाऽप्यङ्गीकृतत्वात् । तथा च त्वया तदात्मत्वं यादृशमङ्गीक्रियते तादृशमेव ममापि सत्त्वे प्रयोजकं भविष्यतीत्याशङ्क्य निषेधति ।। न च वाच्यमिति ।। आत्मादाविति । आत्मत्वादावित्यर्थः । आदिपदेन सच्चेन्न बाध्येतेत्यत्र किमिदं सत्त्वमित्याद्यग्रे विकल्प्यमानस्यानिर्वचनीयसाधकार्थापत्त्यादिगतसत्त्वादेः परिग्रहः । सत्त्व-विकल्पादेरितः पूर्वं ग्रन्थेऽप्रकृतत्वेऽपि ग्रन्थकर्तुर्बुद्धावुपस्थितत्वेनाग्रे वक्ष्यमाणस्यापि सत्त्वादिविकल्पस्य दोषोद्धारायेहादिपदेन गृहीतिरित्याहुः । यद्वा यत्पूर्वं विकल्पितं मिथ्यात्वं तस्य शुक्तिरूप्यादौ सिद्धान्तेऽङ्गीकारा-त्तस्यादिपदेन ग्रहणमिति । तस्यात्मत्वादेरित्यर्थः । इतिशब्दस्य न च वाच्यमित्यनेनान्वयः ।। उक्तप्रकारेति । जातिविशेषादिषु पक्षेष्वस्माभिरन्यतमस्वीकारेऽपि त्वया तदन्यतमस्योक्तरीत्याऽङ्गीकर्तुमशक्यत्वादिति भावः । ननु कथमन्यतरेति । यत्तदोर्निर्धारणे द्वयोरेकस्य डतरजिति, वा बहूनां जातिपरिप्रश्ने डतमजिति किंयत्तद्भ्य एव निर्धारणादौ विहितयोर्डतरडतमयोरन्यशब्दे प्राप्त्यभावेऽपि पस्पशान्हिककैयटेऽन्यतरान्यतमशब्दा-वत्त्युत्पन्नौ स्वभावादेव द्विबहुविषये निर्धारणे वर्तेते इत्युक्तत्वेनान्यतमेति वक्तव्यत्वात् । सत्यम् । उक्तेष्वष्टसु पक्षेषु सप्तपक्षान् एकराशीकृत्यैकं पक्षं चैकीकृत्य द्वित्त्वसम्पादनेनान्यतरेत्यभिलापात् । आत्मत्वखण्डनस्य प्रकृतोपयोगं दर्शयन्नवान्तरप्रमेयोपसंहारपूर्वकमवान्तरप्रधानप्रमेयमुपसंहरति ।। तस्मादिति । आत्मत्वस्य सत्त्वेऽप्रयोजकत्वेनासत्त्वविरहस्यैव प्रयोजकत्वा-दित्यर्थः । आदिपदेन सत्त्वविरहेऽसत्त्वमित्यस्य ग्रहणम् । न सदसद्वैलक्षण्य-मनिर्वाच्यत्त्वमिति शेषः ।

Loading…