Join Tattvasudhā to study.

अनिर्वाच्यत्वभङ्गः

§3Mūla

किञ्च न सदसद्विलक्षणत्वे मानम् । विवादपदं सदसद्विलक्षणमिति प्रतिज्ञायां पक्षस्याप्रसिदस्धविशेषणत्वप्रसङ्गात् ।

एवमनिर्वाच्यत्वलक्षणं खण्डयित्वा तत्र प्रमाणमपि दूषयितुं प्रतिजानीते ।। किञ्चेति । नन्वनिर्वाच्यत्वे कथं मानाभावः । विमतं सदसद्विलक्षणं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवत् । सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदिति वा चित्सुखोक्तानुमानस्य, सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेत्यर्थापत्तेश्च सत्त्वादित्याशङ्क्याद्यानुमाने दूष्यभागं प्रतिज्ञांशानुवादेन दूषयति ।। विवादेति । सदसद्विलक्षणं न वेति विवाद-विषयीभूतं शुक्तिरूप्यादीत्यर्थः । अत्र विवादपदत्वस्य पक्षतावच्छेदकत्वेनोपादाने पूर्वोक्ताशयोऽनुसन्धेयः । सदसद्विलक्षणमित्यत्र किं सत्त्वे सत्यसद्रूपविशिष्टप्रतियोगिकविलक्षणत्वं वाऽभिप्रेतं किं वा सद्वैलक्षण्यासद्वै-लक्षण्यरूपं धर्मद्वयं यद्वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं विशिष्टं वेति विकल्प्य नाद्य इत्याह ।। पक्षस्येति । सदसदुभयात्मकस्य प्रतियोगिनोऽप्रसिद्ध्या तद्वैलक्षण्यमप्रसिद्धमिति भावः । उपलक्षणमेतत् । मन्मतेऽसदेकस्वभावे शुक्तिरूप्यादौ सदसद्रूपविशिष्टप्रतियोगिकवैलक्षण्यस्य सिद्धत्वेन सिद्धसाधनादिति ज्ञेयम् । विशिष्टवैलक्षण्यस्य विशेषणसद्वैलक्षण्येनाप्युपपत्तेः । द्वितीयेऽपि द्वित्वावच्छिन्नवैलक्षण्यद्वयं साध्यमुतोभयसाहित्यमात्रम् । आद्य आह ।। पक्षस्येति ।। पूर्वोक्तरीत्या सद्वैलक्षण्यासद्वैलक्षण्ये व्याहत इत्युभयमेकत्रासिद्धमिति भावः । द्वितीये ब्रह्मवैलक्षण्यमादायांशतः सिद्धसाधनात् । न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवतीति बहिरेव बोध्यम् । तृतीयेऽप्याह ।। पक्षस्येति । विशेषणविशेष्यभावापन्नयोः सद्वैलक्षण्यासद्वैलक्षण्ययोरैकाधिकरण्यरूपसाध्यता-वच्छेदकावच्छिन्नयोरप्रसिद्धेरिति भावः । उपलक्षणमेतत् । विमतं सदसदात्मकं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवदित्याभाससाम्यं च बोध्यम् । नन्वत्र पक्षस्या-प्रसिद्धविशेषणतेति नोपपद्यते साध्यधर्मविशिष्टधर्मिण एव पक्षत्वात् । यदाहुः साध्यधर्मविशिष्टः पक्ष इति । न हि साध्यधर्मविशिष्टस्य साध्यधर्मो विशेषणम् । आत्माश्रयप्रसङ्गादिति चेदाहुः । पक्षपदेन तदेकदेशो धर्मी लक्ष्यते । यद्वाऽप्रसिद्धं विशेषणं यस्मिन् पक्ष इति बहुव्रीहिमाश्रित्य मुख्यार्थ एव यद्धर्मेणास्य पक्षता तद्धर्मांशोऽप्रसिद्ध इति । ननु कथमप्रसिद्धविशेषणत्वं दोषः । न च सन्दिग्धसाध्यवान् पक्ष इति तल्लक्षणात् साध्यस्यैवाप्रसिद्धत्वे तत्कोटिकसन्देहासम्भवान्न पक्षतेति पक्षताविघटकत्वेन तस्य दोषत्वमिति वाच्यम् । सिषाधयिषाविरहसहकृतसाधकमानाभावस्यैव पक्षत्वेन सन्देहान-पेक्षत्वात् । सन्देहापेक्षत्वे वा, शब्दोऽभिधेयः प्रमेयत्वादित्यादावभिधेयत्वं शब्दनिष्ठात्यन्ताभावप्रतियोगि न वेतिवत् सत्त्वासत्त्वे शुक्तिरूप्यनिष्ठात्यन्ता-भावप्रतियोगिनी न वेति सन्देहसम्भवात् । नापि साध्यस्यासिद्धत्वा-त्तन्निरूपितव्याप्तिग्रहासम्भवाद्व्याप्तिविघटकत्वेन दोषतेति । व्यतिरेकिणि व्यतिरेकयोरेव व्याप्त्या साध्यसाधनयोर्व्याप्तेरग्रहादिति चेन्मैवमवादीः । व्यतिरेकज्ञानार्थमपि साध्यज्ञानस्यापेक्षितत्वात् । अभावज्ञाने प्रतियोगि-ज्ञानस्यापेक्षितत्वात्साध्यस्य च प्रतियोगित्वात् । ननु यत्र केवलव्यतिरोकिणि भाव एव साध्यस्तत्र तदभावज्ञानार्थं साध्यज्ञानापेक्षा । यत्र त्वभावः साध्यस्तत्र साध्याभावस्य भावरूपतया प्रतियोगिज्ञानं विनाऽपि तज्ज्ञानसम्भवात् । अत एव पृथिवी इतरभिन्नेत्यत्र त्रयोदशान्योन्याभावानामैकाधिकरण्येनाप्रसिद्धावपि तदभावस्येतरत्वस्य भावतया साध्याप्रसिद्धावपि व्यतिरेकव्याप्तिग्रहः सुशक इत्युक्तम् । अत्र वैलक्षण्यस्याभावरूपस्य साध्यत्वान्न दोष इति चेन्मैवं वोचः । साध्याभावव्यापकाभावप्रतियोगित्वमेव व्यतिरेकिणि गमकतौपयिकं रूपम् । तच्च न स्वरूपसत् । तथात्वे व्यतिरेक्याभासोच्छेदापत्तेः । किन्तु ज्ञातमेव । तज्ज्ञानमपि न वस्तुगत्या साध्याभावव्यापकाभावप्रतियोगिज्ञानत्वेन । तथात्वे यत्र पटादौ घटाभावत्वमारोप्य तव्द्यापकतया लोष्ठत्वाभावादि ग्रहीतं तत्र लोष्ठत्वादिना घटाननुमानापातात् । किन्तु साध्याभावत्वेन ज्ञायमान-व्यापकाभावप्रतियोगित्वज्ञानत्वेन । एवञ्च साध्याप्रसिद्धौ व्यापकतौपयिक-रूपज्ञानमेव दुर्लभमिति । किञ्च व्यतिरेकसहचारेणान्वयव्याप्तिर्गृह्यत इति मते साध्यप्रसिद्धेरावश्यकत्वादनुमितिरूपविशिष्टज्ञानार्थमपि विशेषणस्य साध्यस्य प्रसिद्धेरवश्यं वक्तव्यत्वाच्चेत्यभावसाध्यकव्यतिरेकिण्यप्रसिद्धविशेषणत्वं दूषणमेवेति सुस्थं दोषत्वम् । इदं दूषणं परमतरीत्यैव । यदाहुः । परसिद्धै-र्दूषणमिति । न तु स्वमतानुसारेण । स्वमते तस्यादोषत्वात् । तदुक्तमाचार्यैः । आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम् । अतिप्रसङ्गाभावादिति । तस्यादोषत्वं चासङ्कीर्णोदाहरणाभावादिना प्रकारान्तरेण शास्त्रे तत्र तत्र समर्थितं बोध्यम् । स्वमतानुसारेण च व्याहत्यादिकं दूषणं बोध्यम् । अत एव तत्त्वोद्योतटीकायां ग्रन्थकारैरित्थमेव विभावितमिति ।

Loading…