अनिर्वाच्यत्वभङ्गः
सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वा- द्रूपरसवदित्यनुमाने वस्तुशब्दस्य सच्छब्दपर्यायत्वात्सत्त्वं सन्निष्ठात्यन्ता- भावप्रतियोगीति व्याघातः । प्रमेयत्वाभिधेयत्वादावनैकान्तिकश्च । अवि- रुद्धत्वमुपाधिश्च ।
उक्तदोषपरिहाराय द्वितीयमनुमानमनूद्य दूषयति ।। सत्त्वासत्त्वे इति । अत्र सत्त्वासत्त्वयोरन्यतरस्य पक्षत्वे विवक्षितासिद्धे-स्सिद्धसाधनतापत्तेश्चोभयोः पक्षता । एकं यद्वस्तु तन्निष्ठौ यावत्यन्ताभावौ तयोः प्रतियोगिनी । अत्रात्यन्ताभावप्रतियोगिनी इत्येवोक्तौ सदसन्निष्ठात्यन्ता-भावप्रतियोगित्वमसत्त्वसत्त्वयोरुभयोरस्तीति सिद्धसाधनता स्यात्तद्वारणायैक-वस्तुनिष्ठेति विशेषणम् । ऐकाधिकरण्यावच्छेदकावच्छिन्नेत्यर्थः । एकात्यन्ताभावप्रतियोगिनी इत्येवोक्ते एकसत्त्वेऽपि द्वयं नास्तीति प्रतीत्या सत्त्वासत्त्वयोरन्यतरसत्त्वेऽपि द्वित्वावच्छिन्नोभयाभावमेकमादायार्थान्तरता स्यात्तद्वारणायैकेति वस्तुविशेषणम् । अनेन सत्त्वासत्त्वरहितं किञ्चित्सामान्यतः सिध्यतीति भावः ।। रूपरसवदिति । तयोर्वाय्वादिनिष्ठात्यन्ता-भावप्रतियोगित्वादित्यर्थः । रूपवदित्येवोक्तावेकवस्तुनिष्ठात्यन्ताभावद्वय-प्रतियोगित्वमेकस्य रूपस्य नास्तीत्युभयोपादानम् । अनुमान इति भावे ल्युट् । एवमनिर्वाच्यसाधन इत्यर्थः । सत्त्वांशे प्रतिज्ञासाध्ययोर्व्याघातेन दूषयति ।। वस्त्विति । तथा च तदंशे बाध इति भावः । इतिशब्दः प्रभृतिवचनः । तथा च सत्त्वासत्त्वयोः परस्परविरहात्मकयोः परस्परविरह-व्याप्ययोर्वाऽन्यतरस्यान्यतराभावसामानाधिकरण्यनियमेनोभयोरप्येकवस्तु-निष्ठात्यन्ताभावप्रति योगित्वं व्याहतमित्यर्थः । किञ्च सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी न भवतः । परस्परनिषेधात्मकत्वा-द्घटत्वाघटत्ववदिति त्वदभिमतसाध्याभावस्यापि साधनसम्भवेन स्वव्याघात इत्यर्थः । केवलान्वयिधर्मेषु व्यभिचारं चाह ।। प्रमेयत्वेति । आदिपदे-नात्यन्ताभावप्रतियोगित्वकल्पितत्वादिधर्मपरिग्रहः । तत्र धर्मत्वरूपहेतुसत्त्वेऽप्यत्यन्ताभावप्रतियोगित्वस्याभावात् । अन्यथा तेषां केवलान्वयित्वं न स्यादिति भावः । नन्वौपाधिकधर्माणामुपाध्यनतिरेकात्प्रमात्वमेव परम्परासम्बन्धेन प्रमेयत्वमभिधात्वमेवाभिधेयत्वमिति तदप्यत्यन्ताभावप्रतियोगि । अत एव केवलान्वयिवादे प्रमात्वमेव हि परम्परासम्बन्धाद्धटादौ प्रमेयत्वमिति मणिकृतोक्तमिति चेन्न । दृक्त्वव्यतिरेकेण दृश्यत्वाभावापत्त्या ब्रह्मण एव दृश्यत्वापत्तेर्दृश्यत्वहेतोर्व्यभिचारासिद्ध्योः प्रसङ्गात् । त्वन्मते षट्पदार्थ-नियमाभावेन वैशेषिकप्रक्रियादरणायोगाच्च । न च प्रमेयत्वाद्यपि स्वनिष्ठात्यन्ताभावप्रतियोगि । अन्यथाऽऽत्माश्रयादिति न व्यभिचार इति वाच्यम् । मिथ्यात्वदृश्यत्वादिवत्प्रमेयत्वादेरनन्यथासिद्धधीबलेन स्ववृत्तित्वात् । अत्यन्ताभावप्रतियोगित्वे व्यभिचारस्य दुर्वारत्वाच्च । न च प्रमेयत्वादे-र्निर्ध(र्मक)र्मिकब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वान्न दोष इति वाच्यम् । ब्रह्मणः प्रमेयत्वाभावे वेदान्तानां वैयर्थ्यमित्यलम् । उपाधिमप्याह ।। अविरुद्धत्वमिति । रूपरसादौ साध्यव्यापकत्वात्साधनवति पक्षेऽभावेन साधना-व्यापकत्वादिति भावः । ननु गोत्वाश्वत्वयोर्घटाद्येकवस्तुनिष्ठात्यन्ता भावप्रतियोगित्वेऽप्यविरुद्धत्वाभावान्न साध्यव्यापकतेति चेन्न । सहानवस्थायित्वपरस्परविरहव्याप्यत्वरूपविरुद्धत्वा भावस्य तत्राभावेऽपि परस्परनिषेधात्मकत्वरूपविरुद्धत्वस्य तत्र भावेन परस्परनिषेधानात्मत्वरूपाविरुद्धत्वस्योपाधित्वेनाभिमतस्य तत्र सत्त्वात् । सत्त्वासत्त्वयोश्च परस्परनिषेधात्मकत्वात् । पूर्वं तयोर्विरहव्याप्यत्वाभ्युपगमेन व्याघातसमर्थनं चाभ्युपेत्यवादेनेति । उक्तं च तत्त्वनिर्णयटीकायाम् । न च गोत्वाश्वत्वादौ साध्याव्यापकता प्रतिषेध्यप्रतिषेधात्मकस्य विरोधस्य विवक्षितत्वादिति ।