अनिर्वाच्यत्वभङ्गः
§3Mūla
किञ्च घटत्वाघटत्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदित्याभाससमानयोगक्षेमश्च । सच्चेन्न बाध्येतासच्चेन्न प्रतीयेते - त्यर्थापत्तिरेवानिर्वचनीये प्रमाणमिति चेन्न ।
आभाससाम्यं चाह । किञ्चेति । तथा चानेन घटत्वाघटत्वरहितं किञ्चित्सिध्यतीति भावः । ननु तादृशं वस्तु निर्धर्मकं ब्रह्मैवेति नानिष्टमिति वाच्यम् । तथा सति त्वदनुमानेऽपि सत्त्वासत्त्वरहितं वस्तु निर्धर्मकं ब्रह्मैवेत्यर्थान्तरमिति साम्यात् । ननूक्तरीत्याऽनुमानस्य प्रमाणत्वासम्भवेऽप्यर्थापत्तिरनिर्वाच्यत्वे प्रमाणं स्यादित्याशङ्कते ॥ सच्चेदिति । शुक्तिरूप्यं सच्चेन्न बाध्येत ब्रह्मवत् बाध्यते च नेदं रूप्यमिति तस्मान्न सत् । असच्चेन्न प्रतीयते नृशृङ्गवत् प्रतीयते इदं रूप्यमिति तस्मान्नासदिति विपर्ययपर्यवसानं च बोध्यम्। एवं च सदसद्विलक्षणं सिध्यतीति भावः । एवेत्यनेनानुमान- स्यामानत्वेऽप्यर्थापत्तेर्मानत्वं स्यादित्याह । प्रमाणमेवेति वा सम्बधः ।अर्थापत्तेरनुमानत्वेऽपि तद्विशेषत्वाद्वा व्यवहारे भट्टनय इति परमतरीत्या वा तच्छङ्केति बोध्यम् । निषेधति ॥ नेति ।