Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

सच्चेन्न बाध्येतेत्यत्र किमिदं सद्विवक्षितं किं सत्तायुक्त - मथाबाध्यमुत ब्रह्मस्वरूपम् । नाद्यः । सत्तायुक्तस्य प्रपञ्चस्य भवन्मते बाध्यतया यत्सत्तदबाध्यमिति व्याप्यसिद्धेः । न द्वितीयः । यदबाध्यं तदबाध्यमिति साध्याविशिष्टत्वात् । न तृतीयः । सिद्धसाधनत्वात् ।

– अत्रार्थापत्तौ व्याप्त्यादि विघटयितुं तन्मूलव्याप्तिग्रहौपयिकतर्कशरीरप्रविष्टसच्छाब्दार्थं पृच्छति ।। सच्चेदिति ।। सत्तेति । सत्ताजातियुक्तमित्यर्थः ।। सत्तायुक्तस्येति । आत्मनो निर्धर्मकत्वेन सत्ताया अभावादनात्मन्येव सत्ताङ्गीकारेण तस्य च बाध्यत्वादिति भावः । एतेनार्थ-क्रियाकारि सदिति निरस्तम् । अर्थक्रियाकारिणो बाध्यत्वेन व्याप्त्यसिद्धेः । न च व्यवहारदशायां न बाध्यत इत्युच्यतेऽतो न दोष इति वाच्यम् । व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनात् । व्यवहारदशायां प्रत्यक्षेण न बाध्येतेत्युक्तावपि परोक्षाध्यस्तेऽपरोक्षाध्यस्ते नभोनैल्यादौ च बाधाभावेन विपर्यये पर्यवसानायोगेन तत्र सद्वैलक्षण्यासिद्धेः । उपलक्षणमेतत् । बाध्यतेऽतो न सत्त्वमिति विपर्यये पर्यवसानेन सत्ताराहित्यसिद्धावपि ब्रह्मवन्निर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरत्वं च बोध्यम् । साध्याविशिष्टत्वादिति ।। यदबाध्यं तन्न बाध्येत इत्यापाद्यापादक-योरैक्येनापाद्यवदापादकमसिद्धमिति भावः । ननु व्यवहारस्य साध्यत्वान्न दोष इति चेत्तर्हि त्वन्मतेऽसतो बाध्यत्वाभावेन विपर्यये पर्यवसानलब्धबाध्यत्वेनैव सद्व्यावृत्तेरिवासद्व्यावृत्तेरपि सिद्ध्याऽसच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वात् । एतेनाबाध्यतावच्छेदकावच्छिन्नं सद्विवक्षितमतो न साध्याविशिष्टतेति प्रत्युक्तम् । असच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वापत्तेः ।। सिद्धसाधनत्वादिति ।। शुक्तिरूप्यादि ब्रह्मस्वरूपं चेन्न बाध्येत । बाध्यते च । अतो ब्रह्मस्वरूपं नेति शुक्तिरूप्यादेर्ब्रह्मस्वरूपत्वाभावस्य मन्मतेऽपि सिद्धत्वादिति भावः । सत्खण्डनमुपलक्षणम् । न बाध्येतेत्यादावपि द्रष्टव्यम् । तथा हि । न बाध्ये-तेत्यत्र बाधः किं ज्ञाननिवर्त्यत्वं किं वा त्रैकालिकनिषेधप्रतियोगित्वम् । आद्ये ज्ञाननिवर्त्यत्वस्य शुक्तिरूप्यादावस्माभिरनङ्गीकारेणेष्टापत्तेः । न द्वितीयः । त्रैकालिकनिषेधप्रतियोगित्वस्यैवासत्त्वेन शुक्तिरूप्यादेरसद्वैलक्षण्यवादिमते विपर्यये पर्यवसानायोगात् । एवमसच्चेदित्यत्रासत्किं सत्ताहीनं बाध्यं वाऽब्रह्मस्वरूपं वा निरुपाख्यं वा । नाद्यः । सत्ताहीनस्याप्यात्मादेः प्रतीत्या व्यभिचारात् । शुक्तिरूप्यादेस्तस्मादसन्न भवतीति विपर्ययापर्यवसानाच्च । अत एव न द्वितीयतृतीयौ । शुक्तिरूप्यादेर्बाध्यत्वादिना विपर्ययापर्यवसानात् । अब्रह्मस्वरूपस्याप्यसतः प्रतीत्या व्यभिचाराच्च । न चतुर्थः । निरुपाख्यं चेन्न ख्यायेतेति साध्याविशिष्टत्वादिति ।

Loading…