अविद्यालक्षणनिरासः
असच्चेन्न प्रतीयेतेत्यत्रासतोऽसत्त्वेन प्रतीतिर्निषिध्यते सत्त्वेन वा । आद्येऽसद्व्यवहारलोपप्रसङ्गः । द्वितीये भ्रान्तिव्यवहारलोप- प्रसङ्गः । प्रकृतादन्यात्मना प्रतीतेरेव भ्रान्तित्वात् । तत्र चान्याकारस्यासतः सत्त्वेन प्रतिभासाङ्गीकारात् । तस्यानिर्वचनीयत्वं ब्रूम इति चेन्न ।
एवं न बाध्येतेत्यत्रासच्चेदित्यत्र च बाधासतोरुक्तन्यायेन विकल्पदूषणे स्वयमेवोहितुं शक्ये इत्युपेक्ष्य न प्रतीयेत इत्यत्र प्रतीतिं दूषयितुं पृच्छति ।। असदिति । सत्त्वासत्त्वौदासीन्येन ज्ञानासम्भवादिति भावः । उक्तं हि न हि विधिनिषेधाववधूय प्रत्ययो नामास्तीति । असदिति व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेनासतोऽज्ञाने शशशृृङ्गमसदित्यसत्पद-प्रयोगरूपव्यवहारो न स्यात् । शुक्तिरूप्यमसद्विलक्षणमित्यसतः प्रतीतिर्नास्तीत्यादिव्यवहारश्च न स्यादित्यर्थः । सत्त्वेन प्रतीतिर्निषिध्यत इत्यत्र तादृशप्रमा निषिध्यते भ्रान्तिर्वा । आद्ये इष्टापत्तिं मन्वानो द्वितीये दोषमाह ।। भ्रान्तीति । असतः सत्त्वेन प्रतीत्यभावे शुक्तिरूप्यादिज्ञानं भ्रान्तिरिति व्यवहारो न स्यात् । यद्वाऽसतः सत्त्वेन भानाभावे शुक्तिरूप्यादिज्ञानस्य भ्रान्तित्वायोगेन तत्कार्यविसंवादिप्रवृत्त्यादिव्यवहारो न स्यादित्यर्थः । यद्वाऽसतः सत्त्वप्रकारकज्ञानस्यैव भ्रमत्वेनासच्चेत्सत्त्वेन न भ्राम्येत भ्राम्यते च तथा । अतोऽसन्नेति व्यवहारस्य विरुद्धत्वेन तथाव्यवहारलोपः स्यादित्यर्थः । असतः सत्त्वेन ज्ञानाभावे कुतो भ्रान्तिव्यवहारलोप इत्यत आह ।। प्रकृतादिति । प्रकृताद्वस्तुनः स्वाभाविकरूपाद्रूपान्तरात्मत्वेन ज्ञानस्य भ्रान्तित्वात् । वस्तुयाथात्म्यज्ञानस्य च प्रमात्वादित्यर्थः । असतः सत्त्वप्रतीतिः सतोऽसत्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति तत्त्वनिर्णयोक्तेरिति भावः । अस्तु प्रकृतादन्यात्मना प्रतीतिर्भ्रान्तिः । असतः सत्त्वेन भाने किमायातमिति चेन्न । भ्रान्तौ प्रतीयमानं शुक्तौ रूप्यात्मकत्वं सत् उतासत् यद्वा सदसद्विलक्षणम् । नाद्यः । तज्ज्ञानस्य भ्रान्तित्वायोगात् । यथावद्वस्त्ववगाहिनोऽपि भ्रान्तित्वे बहुविप्लवापातात् । विसंवादायोगाच्च । द्वितीयेऽसदपि रूप्यात्मकत्वमसत्त्वेन भात्युत सत्त्वेन । आद्ये भ्रान्तित्वानु-पपत्तिः । प्रवृत्यनुपपत्तिश्च । द्वितीयेऽसतः सत्त्वेन प्रतीतिरङ्गीकृतैवेत्याह ।। तत्र चेति । भ्रान्तौ चेत्यर्थः । अन्याकारस्य रूप्यात्मकस्येत्यर्थः । तृतीयं पक्षमाशङ्कते ।। तस्येति । शुक्तौ रूप्यात्मकस्येत्यर्थः । सदसद्विलक्षणत्वमनिर्वचनीयत्वम् । न च भ्रान्तित्वानुपपत्तिः । अनिर्वचनीय-विषयकत्वादेव तदुपपत्तेः । प्रातिभासिकविषयत्वादेव विसंवादोपपत्तेश्च । एवञ्च नासतः सत्त्वेन भानमिति भावः । निषेधति ।। नेति ।