अविद्यालक्षणनिरासः
तदपि किं प्रकृतेनैव रूपेण प्रतीयते भ्रान्तावन्याकारेण वा । आद्ये भ्रान्तिव्यवहारलोपप्रसङ्गः । द्वितीयेऽसतः सत्त्वेन प्रतीतिरनिवार्या । अथ तस्याप्यनिर्वचनीयत्वं मन्यसे तर्ह्यनवस्था । तथा च निर्णयदर्शनं दुःशकं प्रसज्येत ।
तत्र हेत्वाकांक्षायां यद्रूप्यात्मकत्वमनिर्वचनीयमित्युक्तं तदप्यनिर्वचनीयत्वरूपेण प्रतीयते उत व्यावहारिकत्वरूपसत्त्वेनेति दूषयितुं विकल्पयति ।। तदपीति । शुक्तौ प्रतीयमानमनिर्वचनीयभूतं रूप्यात्मकत्वमपीत्यर्थः ।। प्रकृतेनेति । अनिर्वचनीयत्वेनान्याकारेण व्यावहारिकत्व-रूपसत्त्वेनेत्यर्थः ।। भ्रान्तिव्यवहारेति । अनिर्वचनीयमनिर्वचनीयत्वेन विषयीकुर्वतो ज्ञानस्य भ्रान्तित्वायोगादिति भावः । द्वितीये व्यावहारिकत्वरूपमपि सत्त्वं, सदुतासदथानिर्वचनीयम् । नाद्यः । शुक्तिरूप्यतादात्म्ये भ्रान्तौ प्रतीयमानस्य सत्त्वस्य सत्यत्वे भ्रान्तिव्यवहारलोपप्रसङ्गात् । विसंवादायोगाच्च । द्वितीयेऽसदपि शुक्तिरूप्यतादात्म्यगतं सत्त्वमसत्त्वेन भात्युत सत्त्वेन । आद्ये भ्रान्तिव्यवहारलोपः स्यात् द्वितीयेऽसतः सत्त्वेन भानं स्यादित्याह ।। द्वितीय इति । असतः शुक्तिरूप्यतादात्म्यगत-सत्त्वस्य । तृतीयमाशङ्कते ।। अथेति ।। तस्यापीति । सत्त्वस्यापीत्यर्थः । न केवलं रजततादात्म्यस्येत्यपेरर्थः ।। अनवस्थेति । अनिर्वाच्यमपि सत्त्वं प्रकृतेनैव रूपेण प्रतीयते उत सत्त्वादिनाऽन्याकारेण । आद्ये भ्रान्तिप्रवृत्त्यो-रनुपपत्तिः । द्वितीयेऽन्याकारः सन्वाऽसन्वाऽनिर्वचनीयो वा । आद्ये भ्रान्तिविसंवादयोरनुपपत्तिः । द्वितीयेऽसत्त्वेनैव भाति सत्त्वेन वा । आद्ये भ्रान्तिप्रवृत्त्योरनुपपत्तिः । द्वितीयेऽसतः प्रतीतिरनिवार्या । तृतीये तदपि किं प्रकृतेनैव रूपेणोतान्याकारेणेत्येवंरूपेणापर्यवसितानिर्वाच्यव्यक्तिपरम्पराङ्गीकारादनव स्थेत्यर्थः । ननु मूलक्षयाभावाद्बीजाङ्कुरवन्नानवस्था दोष इत्यत आह ।। तथा चेति। उत्तरोत्तरानिर्वाच्यासिद्ध्या पूर्वपूर्वानिर्वाच्या-सिद्धिरिति प्राथमिकानिर्वाच्यासिद्ध्या निर्णयो दुःशक इत्यर्थः । नन्वेतत्खण्डनं स्वव्याहतम् । त्वत्पक्षेऽपि साम्यात् । तथा हि । असति रूप्ये यत्सत्त्वं भाति तत्सदुतासत् । आद्ये भ्रान्तित्वानुपपत्तिः । द्वितीये तदपि सत्त्वमसत्त्वेन भात्युत सत्त्वेन । आद्ये प्रवृत्त्यनुपपत्तिः । द्वितीये तदपि सत्त्वेन प्रतीयमानं सत्त्वं किं सदुतासदित्यादि विकल्पसम्भवेना-नवस्थानादिति चेन्मैवं भाषिष्ठाः । त्वन्मतेऽनिर्वाच्यगतसत्त्वस्य प्रातिभासिकत्वेन तस्य सत्त्वेनाप्रतीतौ प्रातिभासिकत्वायोगेन सत्त्वेन सत्त्वप्रतीतेरावश्यकत्वात् । अस्मन्मते चासति रूप्ये प्रतीयमानस्यासत एव सत्त्वस्य सत्त्वेनाप्रतीतावपि तस्यासत्त्वव्याघाताभावेन सत्त्वस्यापि सत्त्वेन प्रतीतेरनावश्यकत्वेन दोषाभावात् । अत एवोक्तं भगवत्पादैः । ‘अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता । तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः’ इति ।।