Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

न द्वितीयः । अपदर्शनत्वात् । न तृतीयः । विचारागोचरत्वात् । तथा हि । काऽसौ सद्विविक्तता नाम । किं परजातिविरहोऽब्रह्मत्वं वाऽसत्त्वं वाऽबाध्येतरत्वं वा । नाद्यः । तेनापि जगति जातेरनिराकरणात् । न द्वितीयः । सिद्धसाधनत्वात् । न तृतीयः । अपसिद्धान्तात् । चतुर्थेऽपि ब्रह्मेतरत्वाभ्युपगमेन सिद्धसाधनत्वात् । अबाध्येतरत्वं नाम बाध्यत्वमिति चेन्न । बाध्यत्वानिरूपणात् ।

एवमियता प्रबन्धेनानिर्वाच्यत्वं मिथ्यात्वमित्याद्यपक्षं प्रतिक्षिप्यासत्त्वं मिथ्यात्वमिति कल्पमपाकरोति ।। न द्वितीय इति ।। अपदर्शनत्वादिति । प्रपञ्चे सदसद्वैलक्षण्यस्यैव तेन कक्षीकृतत्वाद-सत्त्वेऽङ्गीक्रियमाणेऽपसिद्धान्त इत्यर्थः । उपलक्षणमेतत् । व्याप्त्यादीनां जगदन्तर्गतत्वेनासत्यत्वापत्त्याऽनुमानत्वव्याघातादित्यपि बोध्यम् । सद्विविक्तत्वं वेति कल्पं निराचष्टे ।। न तृतीय इति । तस्येति शेषः ।। परजातीति । सत्ताजातिराहित्यमित्यर्थः । अब्रह्मत्वं ब्रह्मान्यत्वं ब्रह्मत्वाभावो वा ।। तेनापीति । मिथ्यात्ववादिनाऽपि । जगति सत्ताजातेरङ्गीकारेण जगत्सत्तारहितमिति साधनेऽपसिद्धान्त इति भावः । न केवलं सत्यत्ववादिभिस्तार्किकादिभिरपि तु तेनापीत्यपेरर्थः ।। सिद्धसाधनत्वादिति । विमतं ब्रह्मान्यदिति वा ब्रह्मत्वाभाववदिति वा प्रतिज्ञार्थः स्यात्तथा च जगति तद्द्वयस्यास्माभिरङ्गीकारात्सिद्धसाधनतेत्यर्थः । अबाध्येतरत्वं नामाबाध्यब्रह्मान्यत्वं वा बाध्येतरत्त्वाभावो वेत्यर्थः स्यात्तथा च बाध्यत्वमेवेत्यभिप्रेत्याद्यं निराह ।। ब्रह्मेति । द्वितीयमाशङ्क्य दूषयति ।। अबाध्येति ।

Loading…