Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

तत्किमन्यथाज्ञातस्य सम्यग्ज्ञातत्वं प्रतिपन्नोपाधौ निषेध - प्रतियोगित्वं वा । नाद्यः । सिद्धसाधनत्वात् । अस्माभिरपि सर्वमनिर्वच- नीयमित्याद्यन्यथाज्ञातस्य जगतो यथावज्ज्ञातताभ्युपगमात् ।

।। अन्यथेति । वस्तु येन प्रकारेण वर्तते ततोऽन्येन प्रकारेण रजतत्वादिना ज्ञातस्य सम्यक् तेनैव वस्तुगतप्रकारेण शुक्तित्वादिना ज्ञातत्वमित्यर्थः ।। प्रतिपन्नेति । प्रतिपन्नः प्रतीतो य उपाधिराश्रय आश्रयत्वेन यः प्रतीयत इत्यर्थः । तस्मिन्नित्यधिकरणसप्तमी । प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वमित्यर्थः ।। सिद्धसाधनत्वादिति । विमतं मिथ्येत्यस्यान्यथाज्ञातत्वे सति सम्यग्विज्ञातमित्यर्थः स्यात्तथा च सिद्धसाधनमित्यर्थः । तदेवाह ।। अस्माभिरिति । न केवलं त्वयैव किन्त्वस्माभिरप्येवंविधबाध्यत्वस्याङ्गीकारादित्यपेरर्थः । सर्वस्या-निर्वचनीयत्वादिरूपवतः प्रपञ्चस्यानिर्वचनीयत्वक्षणिकत्वब्रह्माकार्यत्वादिना पूर्वं ज्ञातस्य विशेषदर्शनानन्तरं सत्यत्वध्रुवत्व ब्रह्मकार्यत्वादिना विज्ञातत्वाङ्गीकारादित्यर्थः ।

Loading…