अविद्यालक्षणनिरासः
द्वितीये किमेकदेशकालप्रतिपन्नस्य कालान्तरादौ निषेधप्रतियोगित्वमुत त्रिकालाखिलदेशनिषेधप्रतियोगित्वम् । नाद्यः । अंशे सिद्धसाधनत्वात् । रीत्यन्तरेणानित्यत्वादेरेवोक्तत्वात् । न द्वितीयः । नित्यसर्वगतयोः कालाकाशयोस्तादृशबाधप्रतिज्ञाने व्याघातात् ।
द्वितीयमपि दूषयितुं पृच्छति ।। किमिति । एकस्मिन्देशे एकस्मिन्काले प्रतिपन्नवस्तुनो देशान्तरे कालान्तरे विद्यमाननिषेध प्रतियोगित्वमित्यर्थः । कालन्तरादावित्यादिपदेन देशपरिग्रहः । तेन यथायोगं सम्बन्धः ।। त्रिकालेति । निषेधशब्दस्य त्रैकालिकनिषेधपरत्वे प्रतिपन्नो-पाधेरन्यत्रासतः प्रतिपन्नोपाधावपि निषेधविवक्षायां त्रिकालाखिलदेशनिषेध-प्रतियोगित्वं पर्यवस्यतीत्यभिप्रेत्येदमभिधानमिति बोध्यम् । अंश इत्युक्त-मेवोपपादयति ।। रीत्यन्तरेणेति । एकस्मिन्देशे प्रतीतस्य देशान्तरस्थनिषेधप्रतियोगित्वे परिच्छिन्नत्वापत्त्या पक्षान्तर्गतघटपटादिरूपपरिच्छिन्नपदार्थेषु तस्य सिद्धत्वात् । तथैककालप्रतीतस्य कालान्तरस्थनिषेधप्रतियोगित्वेऽनित्यत्वापत्त्या तथाविधेष्वेव तेषु तस्य सिद्धत्वादित्यर्थः । आदिपदेन परिच्छिन्नत्वं गृह्यते । एवकारस्य न तु मिथ्यात्वस्येत्यर्थः । नित्येति हेतुगर्भं विशेषणद्वयम् ।। तादृशेति । त्रिकालाखिलदेशनिषेधप्रतियोगित्वरूपेत्यर्थः । नित्यत्वा त्त्रैकालिकनिषेधप्रतियोगित्वं सर्वगतत्वादखिलदेशगतनिषेधप्रतियोगित्वं च व्याहतम् । तथा चांशतो बाध इति भावः । नन्वात्मन आकाशः सम्भूत इत्यादिश्रुत्या सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वश इत्यादिश्रुत्या च कालाकाशयोर्जनिमत्त्वश्रवणेन कथं नित्यत्वमिति चेन्न । अत्र कालपदेनांशिकालस्याकाशपदेनाव्याकृताकाशस्य ग्रहणादुक्तश्रुत्योश्च भूताकाशक्षणलवाद्यंशकालपरत्वात् । आकाशद्वैविध्यस्य च वियदधिकरणे समर्थितत्वात् । अव्याकृताकाशांशिकालयोर्नित्यत्वं सर्वगतत्वं च वक्ष्यमाणरीत्या धर्मिग्राहिणा साक्षिणाऽऽकाशवत्सर्वगतश्च नित्य इत्याकाशस्य सदेव सौम्येदमग्रे दृष्ट्वैव तं मुच्यते नापरेणेत्यादिश्रुत्या सृष्टेः पूर्वं मुक्त्यनन्तरं च कालस्य श्रवणेन सदा सर्वत्र कार्योपलम्भेन विमतं कार्यं देशकालोभयजन्यं कार्यत्वात्सम्प्रतिपन्नत्वादित्यद्यनुमानेन च सिद्धम् । अन्यथाऽत्र देशो नास्तीदानीं कालो नास्तीति निषेधे व्याघातः । उक्तं चानुव्याख्याने । केवलं साक्षिमानेन कालो देशोऽपि नान्तवानिति । न च देशकालयोः स्ववृत्तित्वेऽन्योन्यवृत्तित्वे वाऽऽत्मा-श्रयाद्यापत्त्या तादृशनिषेधप्रतियोगित्वं तयोरिति वाच्यम् । देशः सर्वत्र सदाऽस्ति कालः सर्वत्र सदाऽस्तीत्यबाधितप्रतीत्या तयोः स्वनिर्वाहकतया प्रमेयत्वादिवत्स्वसम्बन्धसिद्धेरिति भावः ।