अविद्यालक्षणनिरासः
काचेयं प्रतिपन्नता नाम । प्रमाणप्रतिपन्नता भ्रान्तिप्रतिपन्नता वा । नाद्यः । प्रमाणप्रतिपन्नस्य त्रिकालाखिलदेशनिषेधप्रतियोगितासाधनेऽतिप्रसङ्गात् । द्वितीये वक्तव्यं कोऽयं निषेधः । अभाववेदनं सद्विविक्तत्ववेदनं वा । नाद्यः । अत्यन्तासत्त्वापातात् । न द्वितीयः । तस्यैवाद्याप्यनिरूपणात् ।
किञ्च प्रतिपन्नोपाधावित्यत्र प्रतिपन्नत्वं नाम यद्यदधिष्ठानकत्वेन प्रमितं तस्य तन्निष्ठनिषेधप्रतियोगित्वं वा यद्यदधिष्ठानकत्वेन भ्रान्तिविषयीभूतं तस्य तन्निष्ठनिषेधप्रतियोगित्वं वेति विकल्प्य दूषयितुं पृच्छति ।। का चेति । किञ्चेति चार्थः । आद्ये यदधिष्ठानकत्वेन यत्प्रमितमित्यस्य क्वचिदधिष्ठाने प्रमितस्येत्यर्थं पर्यवसन्नं बुद्ध्वा दूषयति ।। नाद्य इति ।। प्रमाण-प्रतिपन्नस्येति । क्वचिदधिष्ठान इति शेषः ।। अतिप्रसङ्गादिति । शुक्ति-रूप्यं नास्ति सत्यरूप्यमस्तीत्यादिसर्वव्यवहारोच्छेदः स्यादित्यर्थः । द्वितीयेऽपि निषेधशब्देन स्वरूपेण त्रिकालाखिलदेशस्थनिषेधप्रतियोगित्वमुत सत्त्वेनोक्तनिषेधप्रतियोगित्वं विवक्षितमिति विकल्प्य क्रमेण पक्षद्वयं प्रतिक्षिपति ।। कोऽयमिति । आभाववेदनमिति स्वरूपेण निषेधबुद्धिः, सद्विविक्ततावेदनं सत्त्वेनोक्तनिषेधबुद्धिर्वेत्यर्थः । तवेति शेषः । किमभावं बुद्ध्यस उत सद्विविक्तत्वं बुद्ध्यस इति यावत् । ।। अत्यन्तेति । स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वे निस्स्वरूपत्वा-पत्त्याऽत्यन्तासत्त्वापत्तेः । शशशृृङ्गादेरपि निस्स्वरूपत्वातिरिक्तस्या-सत्त्वस्याभावात् । तथा चापसिद्धान्त इति भावः । न च निरुपाख्यत्वमेवा-सत्त्वमिति वाच्यम् । निरुपाख्यत्वमिति किमप्रतीयमानत्वमपरोक्षतयाऽप्रतीयमानत्वं वा । न द्वयमपि सम्भवति । असति परोक्षापरोक्षप्रतीत्योः समर्थि-तत्वात् । यत्त्वसतोऽसत्त्वादेवात्यन्तिकनिषेधप्रतियोगित्वमपि नेति तत्तुच्छम् । असत्त्वस्योक्तनिषेधप्रतियोगित्वरूपत्वेन हेतोर्विरुद्धत्वात् ।। तस्यैवेति । सद्विविक्तत्वस्यैवेत्यर्थः । अत्रापि पूर्ववत्परजातिविरहो वाऽब्रह्मत्वं वाऽसत्वं वाऽबाध्येतरत्वं वेति विकल्पदूषणयोः प्रत्यावृत्तिरिति भावः ।