अविद्यालक्षणनिरासः
न चतुर्थः । विचारगोचरत्वात् । तथा हि । प्रमाणाविषयत्वं नाम यत्किञ्चित्प्रमाणा- विषयत्वं वा प्रमाणमात्राविषयत्वं वा । नाद्यः । गन्धादेः श्रोत्राद्यविषयतासिद्ध्या सिद्धसाधनत्वात् । न द्वितीयः । ब्रह्मणोऽपि मिथ्यात्वापातात् । प्रमाणाविषयत्वे प्रपञ्चस्य तत्पक्षीकरणायोगाच्च । अतत्त्वावेदकप्रत्यक्षादिसिद्धतया पक्षीकरणमुपपन्नमिति चेन्न | प्रत्यक्षादेरतत्त्वावेदकत्वे मानाभावात्। विषयस्यासत्त्वादेव तत्सिद्धिरिति चेत्तदेव कुतः ।
प्रमाणाविषयत्वं मिथ्यात्वमिति पक्षं क्षिणोति ।। न चतुर्थ इति ।। प्रमाणमात्रेति । मात्रशब्दः कार्त्स्न्यपरः । प्रमाणसामान्याविषयत्वमित्यर्थः ।। सिद्धसाधनत्वादिति । ऐन्द्रियकपदार्थस्य प्रत्यक्षादिप्रमाण-त्रयवेद्यत्वसम्भवेऽपि घ्राणरसनत्वगादीन्द्रियनियतविषयाणां गन्धरसस्पर्शादीनां श्रोत्रत्वक्चक्षुराद्यविषयत्वस्य सिद्धत्वेनातीन्द्रियपदार्थेष्वीशादिप्रत्यक्षविषयत्व-सम्भवेऽप्यस्मदादि प्रत्यक्षाविषयत्वस्य सिद्धत्वेन यत्किञ्चित्प्रमाणाविषयत्वं पक्षतावच्छेदकावच्छिन्ने सर्वत्रास्तीति सिद्धसाधनमित्यर्थः ।। मिथ्यात्वापातादिति । त्वन्मते ब्रह्मणोऽवेद्यत्वरूपस्वप्रकाशत्वाङ्गीकारेण तस्य सर्वप्रमाणाविषयत्वादित्यर्थः । उपलक्षणमेतत् । शुक्तिरूप्यादौ भ्रमद्वाराऽनु-व्यवसायरूपप्रमाणविषयत्वात्साध्यवैकल्यम् । साक्षादिति विशेषणेऽपि बाधकप्रमाणं प्रति निषेध्यत्वेन साक्षाद्विषयत्वात् साक्षात्सत्त्वेनेति विशेषणे लाघवेन सत्त्वाभावस्यैव मिथ्यात्वौचित्यात् तस्य च सद्विविक्तत्वदूषणेन निरासादित्यपि बोध्यम् । किञ्च प्रमाणसिद्धं विश्वं पक्षीक्रियते उत तदसिद्धम् । नाद्यः । प्रमाणसिद्धस्य प्रमाणाविषयत्वे साध्ये व्याघातादित्या-द्यपि दूषणं मनसि निधाय द्वितीये दूषणमाह ।। प्रमाणेति । प्रपञ्चस्य प्रमाणसामान्याविषयत्वेऽङ्गीक्रियमाणे सतीति शेषः ।। तत्पक्षीकरणा-योगाच्चेति । सर्वप्रमाणातीतस्य बुद्धावनारूढस्य प्रपञ्चस्य पक्षीकरणा-सम्भवात्तथा चाश्रयासिद्धिरिति भावः । नृशृृङ्गमसद्योग्यत्वे सत्यनुपलभ्यमानत्वात् इत्यादिना शब्दादिप्रमाणैरवगतस्यैव नृशृृङ्गादेः पक्षीकरणान्न तत्प्रतिबन्धीति ध्येयम् । ननु शुक्तिरूप्यमप्रामाणिकं बाध्यत्वादित्यादाविव प्रमाणाभासैः प्रसक्तस्य पक्षत्वसम्भावात्तत्त्वावेदकप्रमाणमात्रागोचरत्वस्यैव साध्यत्वान्न काऽप्यनुपपत्तिरित्याशङ्क्य निरस्यति ।। अतत्त्वावेदकेति । व्यावहारिकप्रामाण्यकेत्यर्थः ।। मानाभावादिति । तथा च तत्त्वावेदकप्रत्यक्षादिसिद्धस्योक्तमिथ्यात्वसाधनं व्याहतमित्यर्थः । ननु मानाभावोऽसिद्धः । प्रत्यक्षाद्यतत्त्वावेदकं मिथ्याभूतार्थविषयकत्वाच्छुक्तिरूप्यप्रत्यक्षवदिति मानभावादिति शङ्कते ।। विषयस्येति ।। असत्त्वादिति । मिथ्यात्वादित्यर्थः । तत्सिद्धिः प्रत्यक्षादेरतत्त्वावेदकत्वसिद्धिः । दूषयति ।। तदिति । विषयमिथ्यात्व-मित्यर्थः । कुतः कस्मान्मानात् । न कस्मादपीत्यर्थः । ननु दृश्यत्वाद्यनुमानेन नेह नानेत्यागमेन च तत्सिद्धिरिति चेन्न । तयोरेव प्रत्यक्षविरोधेनातत्त्वावेदकत्वापत्त्या तद्विरोधेन प्रबलप्रत्यक्षाप्रामाण्यायोगात् । प्राबल्यस्य वक्ष्यमाणत्वादिति भावः ।