Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

किञ्चातत्त्वावेदकं प्रमाणं चेति व्याघातः । अतत्त्वावेदकं प्रमाणं चेच्छुक्तिरजतज्ञानमपि प्रमाणं किन्न स्यात् । अतत्त्वावेदकत्वाविशेषात् । प्रमाणं चेन्नातत्त्वावेदकम् । अद्वैतवाक्यवत् । न पञ्चमः । सर्वमनिर्वचनीयं क्षणिकं ब्रह्माकार्यमित्याद्यप्रमाणविषयताभ्युपगमेन सिद्धसाधनत्वात् । भ्रमप्रतीतत्वं विवक्षिमिति चेत् । तथा सति तस्यासत्त्वेन सिद्धान्तविरोधः ।

दूषणान्तरमाह ।। किञ्चेति । अतत्त्वावेदकं मिथ्यात्वग्राहकम् ।। प्रमाणं चेति । सत्यार्थग्राहकमित्यर्थः । ननु कथं व्याघातः । अतत्त्वावेदकत्व प्रामाण्ययोर्घटतदभावयोरिवान्योन्यविरहानात्मकत्वादित्याशङ्क्य परस्परपरिहारेण वर्तमानत्वात्तयोरेकत्राङ्गीकारे व्याहतिरिति भावेन सहानवस्थानमाह ।। अतत्त्वावेदकमिति । शुक्तिरूप्यज्ञानेऽतत्त्वावेदकत्वे सत्यपि प्रमाणत्वाभावात् । अन्यथा तदपि प्रमाणं स्यादविशेषात् । तत्त्वमस्याद्यद्वैतवाक्ये प्रामाण्ये सत्यप्यतत्त्वावेदकत्वाभावात् । अन्यथा तदप्यतत्त्वावेदकं स्यात्प्रमाणत्वाविशेषात् । पारमार्थिकव्यावहारिकप्राति भासिकविषयत्वेनाद्वैतवाक्यप्रपञ्चज्ञानशुक्तिरूप्यज्ञानानां वैषम्यं तु विश्वमिथ्यात्वसिद्ध्युत्तरकालीनमिति भावः । अप्रमाणविषयत्वं मिथ्यात्वमिति पक्षं प्रतिक्षिपति ।। न पञ्चम इति । अप्रमाणविषयत्वं नाम प्रमाणाभासविषयत्वं वा शुक्तिरूप्यवद्भ्रान्तिविषयत्वं वेति द्वेधा विकल्प्याद्यं सिद्धसाधन-तया दूषयति ।। सर्वमिति । अनिर्वचनीयमिति मायिमतानुसारेणा-निर्वचनीयत्वसाधकदृश्यत्वादिमानाभासविषयत्वेन सर्वं क्षणिकं सत्त्वाज्जलधर-पटलवदिति बाह्यमतानुसारेण क्षणिकत्वसाधकसत्त्वाद्याभासविषयत्वेन, सर्वं ब्रह्माकार्यं परिणामकार्यत्वात्क्षीरपरिणामदध्यादिकार्यवदिति निरीश्वर-साङ्ख्यमतानुसारेण परिणामकार्यत्वाद्याभासविषयत्वेनादिपदोक्तशिवादिकर्तृत्व-साधकमानाभास विषयत्वेन चाप्रमाणविषयताभ्युपगमेन सिद्धसाधनादित्यर्थः । द्वितीये किमधिष्ठानत्वेन भ्रमप्रतीतत्वमारोप्यतया भ्रमप्रतीतत्वं वा । आद्ये विश्वभ्रमाधिष्ठानब्रह्मणोऽपि मिथ्यात्वापत्तिः । द्वितीये विशेष्यभागस्य वैय्यर्थ्यमिति दूषणे सत्यपि वास्तवमवलम्ब्य दूषणान्तरमाह ।। भ्रमेति । आरोप्य-त्वेनेति शेषः ।। सिद्धान्तविरोध इति । त्वन्मते जगतोऽसत्त्वानभ्युप-गमेनापसिद्धान्त इत्यर्थः । भ्रान्तौ प्रतीतस्यानिर्वचनीयत्वं प्रागेव प्रत्यक्षेऽपि । अन्यत्र सत्त्वं तु मानाभावादसदेव रूप्यमभादिति प्रत्यक्षेण विमतमसत्सत्त्वानधिकरणत्वादित्याद्यनुमानेन च विरोधादयुक्तमिति भावः ।

Loading…