Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

न षष्ठः | केयमविद्या नाम । अनाद्यनिर्वाच्या वा अनादिभावरूपत्वे सति विज्ञानविलाप्या वा भ्रमोपादानं वा । नाद्यः । अनिर्वाच्यासिद्ध्याऽप्रसिद्धविशेषणत्वात् । आकाशादौ लक्षणस्यातिव्याप्तेश्च । ब्रह्मव्यतिरिक्तस्यानादित्वानभ्युपगमान्नैवमिति चेत् । एवं तर्हि लक्षणस्यासम्भवः ।

अविद्यातत्कार्ययोरन्यतरत्वं मिथ्यात्वमिति कल्पोऽपि नावकल्पत इत्याह ।। न षष्ठ इति । अविद्यायां लक्षणप्रमाणयोरभावेनाविद्यास्वरूपमेवालीकायितमिति वक्तृं लक्षणं तावद्दुदूषयिषुः पृच्छति ।। केयमिति । कीदृग्लक्षणोपेतेत्यर्थः । तत्र परोक्तानि लक्षणान्यनुवदति ।। अनादीति । अनादित्वे सत्यनिर्वाच्येत्यर्थः । अत्राविद्याकार्ये घटादावतिव्याप्तिवारणायानादीति । ब्रह्मण्यतिव्याप्तिवारणायानिर्वाच्येति । अत्रानादौ प्रागभावादावति व्याप्तेररुच्या लक्षणान्तरमुट्टङ्कयति ।। अनादिभावेति । विज्ञानविलाप्या विज्ञाननिवर्त्येत्यर्थः । अत्र सतिसप्तमीमहिम्नाऽनादिभावरूपत्वविज्ञानविलाप्यत्वयोः सामानाधिकरण्यादनादित्वभावरूपत्वोभयसमानाधिकरणं विज्ञानविलाप्यत्वं वाऽविद्यालक्षणमित्यर्थः । अत्र भ्रमप्रागभावयोरतिव्याप्तिवारणाय सत्यन्तम् । ब्रह्मणि तद्वारणाय विज्ञानविलाप्येति । अत्रानादि भावत्वे सतीति वक्तव्ये भावरूपत्वे सतीत्युक्ति-र्वस्तुतस्तस्याभावत्वमपि नेति ख्यापनाय । अत्र साक्षाद्विज्ञानविलाप्यत्वं विवक्षितम् । तेन न जीवब्रह्मविभागादावतिव्याप्तिः । तस्याज्ञानद्वारा ज्ञाननिवर्त्यत्वात् । यद्वैतदस्वरसादाह ।। भ्रमेति । भ्रमं प्रति परिणाम्युपादानमित्यर्थः । तेन विवर्तोपादाने ब्रह्मणि नातिव्याप्तिः । अत्र भ्रमेति मृत्पिण्डादावतिव्याप्तिवारणायेति ।। अप्रसिद्धेति । पक्षस्येति शेषः । विमतमनाद्यनिर्वाच्यतत्कार्यान्यतरदिति प्रतिज्ञार्थः स्यात्तथा चानिर्वाच्यस्योक्त-रीत्याऽप्रसिद्ध्याऽप्रसिद्धविशेषणत्वं पक्षस्येत्यर्थः ।। आकाशादाविति ।। आदिपदेन कालजीवब्रह्मविभागादेः परिग्रहः । आकाशादेर्ब्रह्मभिन्नत्वेनानिर्वाच्यत्वादनादित्वाच्चेत्यर्थः ।। अनभ्युपगमादिति । मिथ्याभूतस्य तत्त्वतोऽनादित्वायोगादिति भावः ।। असम्भव इति । अविद्याया अपि ब्रह्मभिन्नत्वेनानादित्वाभावादिति भावः ।

Loading…