अविद्यालक्षणनिरासः
न द्वितीयः । अनादित्वस्यासम्भवित्वात् । अनादिभावरूपस्य विज्ञानविलापनाऽसम्भवाच्च ब्रह्मवत् । भावाभावविलक्षणाविद्याया अभावविलक्षणतामात्रेण भावत्वोपचारादात्मवदनादिभावत्वेना निवर्त्यत्वानुमानानुपपत्तिरिति चेन्न । अभावविलक्षणतामात्रेणाप्यनादेर निवर्त्यत्वानुमानसम्भवात् । न चात्मत्वादिरुपाधिः । अत्यन्तासति व्यभिचारात् ।
।। असम्भवित्वादिति । उक्तरीत्या वा विमतं नानादि भावत्वे सति विज्ञानविलाप्यत्वाच्छुक्तिरूप्यवदित्यनुमानेन वाऽनादित्वाभावेन विशेषणाभावेन विशिष्टस्यासम्भवित्वादित्यर्थः । उपलक्षणमेतत् । जीवब्रह्मविभागादावतिव्याप्तिश्च बोध्या । न च साक्षादिति विशेषणाददोष इति वाच्यम् । तथा सत्यनादिपदवैय्यर्थ्यात् । अज्ञानातिरिक्तस्य सर्वस्याप्यज्ञानद्वारेण ज्ञाननिवर्त्यत्वात् । तावत एवोक्तौ चाभावारोपोपादानाज्ञाने भावत्वाभावेन चरमसाक्षात्कारानन्तरभाविनि जीवन्मुक्त्यनुवृत्तेऽज्ञाने च ज्ञाननिवर्त्यत्वाभावेनाव्याप्तेः । जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वे स्वकार्यैः प्रारब्धकर्मभिः सह पूर्वेणैव साक्षात्कारेण निवृत्तिः स्यान्न तूत्तरेणेति सद्यः शरीरपातापत्त्या जीवन्मुक्तिवार्ता लुप्येतेत्यलम् । किञ्च यद्यनात्मनोऽप्यज्ञानस्यानादित्वं मन्यसे तर्हि तादृशस्य तस्य ब्रह्मविज्ञानविलाप्यत्वाभावादसम्भव एवेति भावेनाह ।। अनादीति । नन्वज्ञानस्य भावाभावविलक्षणत्वादनादिभावरूपत्वमसिद्धं येन विज्ञानविलाप्यत्वासिद्ध्या लक्षणमसम्भवि स्यादित्याशङ्कते ।। भावेति । अनाद्यभावविलक्षणत्वेनापि हेतुना व्यभिचाराभावेन ज्ञानानिवर्त्यत्वानुमानमक्षतमेवेति भावेन परिहरति ।। अभावेति । अनाद्यभावविलक्षणत्वेन हेतुनेत्यर्थः ।। न चेति । आदिपदेनाभावत्वं ग्राह्यम् । आत्मत्वस्यात्मन्यभावत्वस्याभावेऽनिवर्त्यत्वरूपसाध्यव्यापकत्वस्य सत्त्वात्साधनवति पक्षेऽभावेन साधनाव्यापकत्वाच्चेति भावः ।। व्यभिचारादिति । असति ज्ञानानिवर्त्यत्वे सत्यप्यात्मत्वाभावत्वयोरभावेन साध्याव्यापकत्वादित्यर्थः । यदत्रोक्तं विवरणे । अनिवर्त्यत्वे नानादित्वं प्रयोजकं किन्तु विरोध्यसन्निपातः । प्रकृते चास्ति विरोधिसन्निपात इति । तदचारु । अनादिभावत्वेनैव विरोध्यसन्निपातस्याप्यनुमानात् । विस्तरस्तु सुधायां बोध्यः ।