अविद्यालक्षणनिरासः
न तृतीयः । भ्रमशब्देनार्थो ज्ञानं वा । नाद्यः । पदार्थस्यासत्त्वेन तदुपादानतया असम्भवात् । न द्वितीयः । अन्तःकरणेऽतिव्याप्तेः । भ्रमस्याविद्योपादानकताऽभावेनासम्भवित्वाच्च । तदनुपादानत्वे सत्यत्त्वं स्यादिति चेत् । स्यादेव । तथा सति प्रमाणज्ञानवदेव विषयापहारलक्षणबाधस्याप्यप्रसङ्ग इति चेन्न । तव व्याप्यसिद्धेः ।
परमते इदमंशावच्छिन्नचैतन्यावरकाज्ञानं रूप्यात्माना ज्ञानात्मना च परिणमत इत्युभयोर्भ्रमत्वाभ्युपगमेन भ्रमोपादानमित्यत्र भ्रमशब्देन किं विवक्षितमिति विकल्प्य दूषयति ।। भ्रमेति । भ्रमविषयो वा भ्रमज्ञानं वेत्यर्थः ।। असत्त्वेनेति । पूर्वोक्तरीत्या भ्रमविषयस्यासत्त्वेन नृशृृृङ्गादिवन्निरुपादानकत्वेन भ्रमविषयोपादानकत्वमसम्भवीत्यर्थः ।। अतिव्याप्तेरिति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एवेति श्रुत्या ज्ञानं प्रत्यन्तःकरणस्योपादानत्वेन भ्रमोपादानत्वं तत्रातिव्याप्तमित्यर्थः । किञ्च मृद्घट इति प्रतीतिवद् भ्रमस्याज्ञानानुविद्धतया प्रतीत्यभावेन तदुपादानकत्वायोगात्तदुपादानकत्वमविद्यायामसम्भवीत्याह ।। भ्रमस्येति । गूढाभिप्रायेण शङ्कते ।। तदिति । अज्ञानानुपादानत्वे भ्रमस्येत्यनुकर्षः । आत्मवदिति भावः । जन्यत्वे सतीत्यपि बोध्यम् । तेन नाविद्यादौ व्यभिचारः । यद्यपि परमते यदज्ञानानुपादानकं तत्सत्यमिति न व्याप्तिरस्ति । आत्मनि सहचारग्रहसम्भवेऽप्यनाद्यज्ञानजीवब्रह्मविभागादौ व्यभिचारात् । जन्यत्वे सतीति विशेषणे च दृष्टान्ताभावेन तत्र व्याप्त्यसिद्धेरिति वक्ष्यमाणं दूषणमत्रापि सुवचम् । तथाऽपि वास्तवाभिप्रायेणेष्टापत्त्या परिहरति ।। स्यादेवेति । एवकारेण तत्सत्त्वं सुप्रसिद्धमित्याह । शङ्किता स्वाशयमुद्घाटयति ।। तथेति । भ्रमस्य सत्यत्वे सतीत्यर्थः ।। प्रमाणेति । तत्त्वावेदकप्रमाणजन्याद्वैतज्ञानवदित्यर्थः ।। बाध्यस्यापीति । न केवलं मदभिमतधीस्वरूपबाधस्याप्यप्रसङ्गः किन्तु भवदभिमतस्य रूप्यलक्षणविषयाभावरूपबाधस्याप्यप्रसङ्ग इत्यपिशब्दार्थः । ज्ञानस्य सत्यत्वे विषयस्यापि सत्यत्वं स्यादिति फलितोऽर्थः । अतो न ज्ञानं सत्यमिति भावः । विषयसत्त्वे न ज्ञानसत्त्वं प्रयोजकम् । क्वचिज्ज्ञानसत्त्वाभावेऽपि विषयसत्त्वाभ्युपगमेन व्यभिचारादित्याह ।। तवेति ।