Join Tattvasudhā to study.

अविद्यालक्षणनिरासः

§4Mūla

तत्त्वावेदकस्यापि त्वयाऽऽविद्यकत्वाभ्युपगमात् । एतावन्तं कालं रजतमभादित्यनुभवविरोधाच्च । अनिर्वचनीयस्यापि भ्रमस्याभावविलक्षणतया तथात्वेनानुसन्धानोपपत्तिरिति चेन्न । स्वरूपसत एवासीदिति प्रतिसन्धानात् । एतावन्तं कालमिहादर्शे मुखमासीत् । स्फटिकश्च लोहित आसीदित्याद्यनुसन्धानान्नैवमिति चेत् । एतावन्तं कालं मुखमद्राक्षमित्येवानुसन्धानेनानुसन्धानान्तरे विवादात् ॥ छ ॥ अविद्यालक्षणनिरासः ।।

असिद्धिमेवोपपादयति ।। तत्त्वावेदकस्यापीति । शुद्धचैतन्यविषयकस्य वेदान्ततात्पर्यजन्यचरमसाक्षात्कारादेरित्यर्थः ।। आविद्यकत्वेति । मिथ्यात्वेत्यर्थः । अपिरनुक्तसमुच्चयार्थः । तेन परोक्षज्ञानव्यवहारयोः सत्यत्वेऽपि तद्विषयस्य खपुष्पादेरसत्त्वस्य साक्षिवेद्यज्ञानसुखादेर्मिथ्यात्वस्याभ्युपगमादित्यन्वयव्यभिचारोऽपि बोध्यः । एवं व्याप्त्यभावमुपपाद्य ज्ञानासत्त्वस्य सत्त्वानुभवबाधितत्वान्न विपर्यये पर्यवसानमित्याह ।। एतावन्तमिति ।। रजतमभाद्रजतज्ञानमासीदित्यर्थः । न चायमनुभवो भ्रमः । बाधकाभावादिति भावः । ज्ञाने सत्त्वानुभवस्यान्यथासिद्धिमाशङ्क्याह ।। अनिर्वचनीयस्यापीति । सदसद्विलक्षणस्यापीत्यर्थः ।। अभावविलक्षणतयेति । असद्विलक्षणतयेत्यर्थः । तथात्वेन सत्त्वेन ।। नेति । आसीदिति स्वरूपसत्त्वस्यैव प्रतीतेर्नासद्वैलक्षण्येनोपपत्तिरिति भावः । अन्यथा सदसद्विलक्षणत्वेनासीदित्यनुसन्धानापातात् । तस्मात्सत्त्वानुसन्धाने सत्त्वमेव प्रयोजकं नासद्वैलक्षण्यमिति भावः । ननु सत्त्वानुसन्धाने सत्त्वस्यैव प्रयोजकत्वेऽसति प्रतिबिम्बे सत्त्वानुसन्धानमेव न स्यादित्याशङ्क्य निराकरोति ।। एतावन्तमिति ।। इत्येवानुसन्धानेनेति । तथा च न सत्त्वप्रतीतिरिति भावः । अनुसन्धानान्तरे मुखमासीदित्यनुसन्धाने । विवादादित्यनेन प्रतिबिम्बस्य छायादिवत्सत्यत्वेनाप्युपपत्त्याऽसत्त्वे न सम्प्रतिपत्तिरित्यपि सूचितं भवति ।। छ ।।

Loading…