अविद्याप्रमाणनिरासः
अविद्यायां चैवंविधायां किं प्रमाणम् । देवदत्तप्रमा तत्स्थप्रमाप्राग- भावातिरेकिणोऽनादेर्ध्वंसिका प्रमात्वादविगीतप्रमा यथेत्यनुमानं मानमिति चेन्न । घटोsयमेतद्धटप्रागभावव्यतिरिक्तानादेर्निवर्तको घटत्वाद्वटान्तरवदि- त्याभाससमानयोगक्षेमत्वात् । एतेन विगीतो भ्रम एतज्जनकाबाध्यातिरिक्तो - पादानकः । विभ्रमत्वात्सम्प्रतिपन्नवदिति च निरस्तम् । अनादित्व- प्रमानिवर्त्यत्वयोर्विरोधाच्च । देवदत्तप्रमा देवदत्तगतैतत्प्रमाप्रागभावाति- रिक्तानादेर्निवर्तिका न भवति प्रमात्वात्सम्प्रतिपन्नवदिति सत्प्रतिपक्षता च ।
एवमविद्यालक्षणानि निरस्य प्रमाणमपि व्युदसितुं पृच्छति ॥ अविद्यायामिति । एवंविधायामुक्तलक्षणविशिष्टायाम् । अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम् । पराङ्गीकृतायामेव तस्यां प्रमाणादिनिराकरणात् । तथा च वक्ष्यति स्वयमेव । किमित्याक्षेपे न किमपीत्यर्थः । चित्सुखोक्तमनुमानमाशङ्कते ॥ देवदत्तेति । तत्स्थो देवदत्तगतो यो देवदत्तप्रमाप्रागभावस्तदतिरिक्तस्येत्यर्थः । अनेनानादिभावरूपज्ञाननिवर्त्याज्ञानसिद्धिः|| अविगीतप्रमेति । मैत्रप्रमा यथेत्यर्थः । दृष्टान्ते मैत्रप्रमायां देवदत्तगतप्रमाप्रागभावातिरिक्तस्या नादेर्मैत्रप्रमाप्रागभावस्य ध्वंसकत्वमादाय साध्यं बोध्यम् । अत्र मैत्रादिप्रमायां तत्तत्प्रागभावध्वंसित्वमादायांशे सिद्धसाधनतावारणाय देवदत्तेति पक्षविशेषणम् । पक्षविशेषणाभावे पक्षतावच्छेदकहेत्वोरभेदेन व्याप्तिग्रहदशायामेव पक्षतावच्छेदकसामानाधिकरण्येन विवक्षितसाध्यसिद्धेः सिद्धसाधनमेव दोषः I दृष्टान्तासिद्धिश्चेत्यप्याहुः | साध्ये पूर्वज्ञानध्वंसित्वेनार्थान्तरवारणायानादेरिति । प्रमाप्रागभावमादाय तद्व्यावृत्तये प्रमाप्रागभावातिरेकिण इति । साध्याप्रसिद्धिवारणाय तत्स्थेति विशेषणम् । एवमाशङ्कितमनुमानमाभाससाम्येन दूषयति ।। नेति । अन्यथा तत्राप्यनादिभावरूपत्वे सति घटनिवर्त्यः कश्चन पदार्थः सिध्येदिति भावः । प्रथमानुमानदूषणेनैव चित्सुखोक्तमनुमानान्तरं च निरस्तमित्याह ॥ एतेनेति । विगीतो विवादविषयीभूतः । देवदत्तभ्रम इत्यर्थः । एतदिति । एतस्य विगीतभ्रमस्य यज्जनकमबाध्यं तदतिरिक्तमुपादानं यस्य स इत्यर्थः । दृष्टान्ते मैत्रभ्रमे देवदत्तभ्रमजनकाबाध्यातिरिक्तमैत्रीयान्तःकरणोपादानकत्वेन साध्यं बोध्यम् । भ्रमान्तरेंऽशतः सिद्धसाधनतावारणाय विगीत इति पक्षविशेषणम् । साध्ये आत्माद्युपादानकत्वेनार्थान्तर वारणायाबाध्यतिरिक्तेति । परमते साध्याप्रसिद्धिवारणायैतज्जनकेति । एतज्जनकाबाध्यातिरिक्तकारणक इत्येवोक्ते तादृशप्रागभावादिजन्यत्वेनार्थान्तरवारणायोपादानेति । अनेन भ्रमोपादानमज्ञानं सिध्यतीति भावः । निरस्तमिति । चैत्रेच्छैतज्जनका बाध्यातिरिक्तोपादानिका इच्छात्वान्मैत्रेच्छावत् । चैत्रसुखादिकमुक्तसाध्यवत् सुखत्वान्मैत्रसुखवदित्याभाससाम्येन निरस्तमित्यर्थः । आद्यानुमाने प्रतिज्ञावाक्यगतपदानां परस्परविरोधं चाह || अनादित्वेति । प्रकरणसमत्वं चाह || देवदत्तेति । देवदत्तगतो य एतत्प्रमाप्रागभावस्तदतिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः । दृष्टान्ते मैत्रप्रमादौ स्वप्रागभावनिवृत्तिरूपत्वेन तन्निवर्तकत्वं नेति न साध्यवैकल्यम् । अत एवोत्तरानुमाने तथैव वक्ष्यति । यद्वा देवदत्तगतेति प्रमाप्रागभावयोरन्यतरस्य विशेषणमुत तत्स्थश्चासौ प्रमाप्रागभावातिरेकी चेति तदतिरेकिणोऽनादेर्विशेषणम् । नाद्यः । वृत्तिरूपप्रमाया अन्त: करणनिष्ठत्वेन देवदत्तनिष्ठत्वाभावात् । अभावस्यापि प्रतियोगिसमान देशत्वेनान्त: करणनिष्ठत्वेन देवदत्ताद्यनिष्ठत्वाद्बाधापत्तेः । द्वितीये दोषमाह || देवदत्तेति । देवदत्तगतस्यैतत्प्रमाप्रागभावातिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः । एवं च दृष्टान्ते मैत्रप्रमादौ स्वप्रागभावनिवर्तकत्वेऽपि देवदत्तगतानादिनिवर्तिकत्वं नेति न साध्यवैकल्यम् ॥ सत्प्रतिपक्षतेति । प्रकरणसमतेत्यर्थः । उक्तं हि न्यायकल्पलतायाम् । स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इति ।