अविद्याप्रमाणनिरासः
अथ प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्व निवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदित्यनुमानं मानमस्तु । अत्र च प्रमाणज्ञानं वस्त्व- न्तरपूर्वकमित्युक्ते स्वप्रागभावेन सिद्धसाधनता । तन्निवृत्त्यर्थं स्वप्राग- भावव्यतिरिक्तेति पदम् । तथाऽपि स्वप्रागभावव्यतिरिक्तस्वजनकसामग्र्या सिद्धसाधनम् । तन्निवृत्त्यर्थं स्वविषयावरणेति पदम् । तथाऽप्यदृष्टेन सिद्ध- साधनम् । तन्निवृत्त्यर्थं स्वनिवर्त्येति पदम् । अर्थान्तरनिवृत्तये आत्माश्रिता- ज्ञानसिद्धये च स्वदेशेति पदमिति । ।
विवरणोक्तमनुमानमाशङ्कते ॥ अथेति । साध्ये स्वपदेन प्रमाणज्ञानं गृह्यते । विशेषणचतुष्टयमपि वस्त्वन्तरविशेषणम् । अत्र प्रमाणेति विशेषणं भ्रान्तावंशतो बाधवारणाय । ज्ञानमिति तु प्रमाणशब्दस्य भावसाधनत्व- ज्ञापनाय । तेन करणमादाय न बाधः शङ्कनीयः । दूषणसौकर्याय साध्यगतपदानां व्यावर्त्यमाह ॥ अत्रेति । सिद्धसाधनतेत्यनन्तरं स्यादिति शेषः ।। तथाऽपीति । प्रागभावेनार्थान्तरताभावेऽपीत्यर्थः । स्वप्रागभाव- व्यतिरिक्ता या स्वजनकसामग्री तयेत्यर्थः । अदृष्टेन स्वोत्पत्तिप्रति- बन्धकादृष्टेनेत्यर्थः । अर्थान्तरेति । ज्ञानविषये ज्ञाततावदज्ञानविषयेऽप्य- ज्ञातताऽस्तीति तत्पूर्वकत्वमादायार्थान्तरेत्यर्थः । अप्रकाशितेति हेतुविशेषणं द्वितीयादिप्रकाशे व्यभिचारवारणाय । दृष्टान्ते प्रथमोत्पन्नेति द्वितीयादिप्रमायां साधनवैकल्यवारणायेति ।