अविद्याप्रमाणनिरासः
नानेनानुमानेन त्वदभिमताज्ञानसिद्धिः । जडेऽज्ञाना- नभ्युपगमेनान्तःकरणवृत्तिलक्षणप्रमाणज्ञानानां तथाविधवस्तुपूर्वकत्वाभावेऽपि हेतोस्तत्र सद्भावादनैकान्तिकत्वात् । व्यर्थं च स्वप्रागभावव्यतिरिक्तेति विशेषणम् । स्वनिवर्त्यविशेषणेनैव तद्व्यावृत्तेः । न हि भावः स्वप्रागभावनिवर्तकः । अपि तु भावोत्पत्तिरेव तत्प्रागभावनिवर्तिका । भावा- भावयोः सहावस्थानविरोधात् । अतः स्वनिवर्त्यविशेषणेनैव स्वप्राग- भावव्यावृत्तेर्व्यर्थं स्वप्रागभावव्यतिरिक्तेति विशेषणम् ।
एवमनूदितमनुमानं दूषयति ।। नेति । अत्र प्रमाणज्ञानमित्यनेन चैतन्यं पक्षीक्रियते उत वृत्तिर्वा । आद्ये दोषमाह ।। जड इति । “आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचर " इति विवरणोक्तेर्जड विषयका- ज्ञानानभ्युपगमेनेत्यर्थः । ज्ञानानामिति । जडविषयकाणामिति शेषः ॥ तथाविधेति । स्वप्रागभावेत्यादि विशेषणविशिष्टेत्यर्थः । इदं तु साध्या- भावोपपादनाय । अनैकान्तिकत्वादित्युपलक्षणम् । सुखादिविषयकचैतन्ये बाधोऽपि बोध्यः । द्वितीयेऽपि परोक्षवृत्तिर्वाऽपरोक्षवृत्तिर्वा । आद्येऽप्याह || जड इति । ज्ञानानां परोक्षज्ञानानामित्यर्थः । द्वितीयेऽप्याह । जड इति । ज्ञानानामपरोक्षज्ञानानाम् । पक्षद्वये बाधोऽपि बोध्यः । स्वविषया- वरणवस्त्वन्तरस्याभावात् । साध्ये विशेषणवैय्यर्थ्यं चाह || व्यर्थं चेति । तर्हि प्रागभावव्युदासः कथमित्यत आह || स्वेति । तदेवोपपादयति ।। न हीति । ननु भावः कुतः स्वप्रागभावानिवर्तक इत्याशङ्क्य नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन समानाधिकरणयोरेव निवर्त्यनिवर्तकभावात् । भावाभावयोश्च सहानवस्थानान्न निवर्त्यनिवर्तकभाव इत्याह ॥ भावेति ॥ उक्तं विशेषणवैय्यर्थ्यमुपसंहरति ।। अत इति । भावस्याभावनिवर्तकत्वा- भावादित्यर्थः ।