Join Tattvasudhā to study.

अविद्याप्रमाणनिरासः

§5Mūla

किञ्च सत्यतथाविधवस्तुपूर्वकत्वे साध्ये सिद्धसाधनम् । अनिर्वचनीयतथाविधवस्तुपूर्वकत्वे साध्ये साध्यविकलो दृष्टान्तः । अवि- शेषिततथाविधवस्तुपूर्वकत्वे साध्येऽप्रसिद्धविशेषणता । प्रामाणिकाप्रामाणि - कयोः साधारणधर्मस्याप्यप्रामाणिकत्वात् । अनिर्वचनीयस्य केनापि प्रमाणेनाप्रमितत्वात् । न हि शशविषाणगोविषाण योर्विषाणत्वसामान्य- मस्ति । ज्ञानप्रतिबन्धकपापस्यसिद्धतया सिद्धसाधनत्वं च । ज्ञाननिवर्त्यत्वात्तस्यापि ।

किञ्च वस्त्वन्तरपूर्वकत्वमित्यत्र सत्यवस्त्वन्तरपूर्वकत्वं, साध्यमुतानिर्वचनीयवस्त्वन्तरपूर्वकत्वमाहोस्वित्सत्यानिर्वचनीय साधारणवस्त्वन्तरपूर्वकत्वमिति त्रेधा विकल्पं हृदि कृत्वा क्रमेण निरस्यति । किञ्चेति । तथाविधेति । उक्तविशेषणविशिष्टेत्यर्थः । सिद्धसाधनमिति । सत्यभावरूपाज्ञानस्यास्माभिरङ्गीकारादिति भावः || साध्यविकल इति । तमसोऽनिर्वचनीयत्वासिद्धेरिति भावः । अप्रसिद्धत्वमेवोपपादयितुं सामान्यन्यायमाह || प्रामाणिकेति ॥ ततः किमित्यत आह ॥ अनिर्वचनीयस्येति । प्रामाणिकाप्रामाणिकयोः सामान्यधर्मो नेत्येतत्प्रसिद्धमित्याह । न हीति । दोषान्तरं चाह || ज्ञानेति ॥ ज्ञानप्रतिबन्धकेति स्वविषयावरणत्वख्यापनायोक्तम् । ज्ञानप्रागभावभिन्नत्वं ज्ञानदेशगतत्वं च स्पष्टम् । ज्ञाननिवर्त्यत्वे तु विवादादाह || ज्ञानेति । ‘“अग्निचित्कपिला सत्रं राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यश ।। " इति स्मृत्याऽग्निचित्कपिलादि दर्शनस्य दुरितादिनिवर्तकत्वस्य, सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति सेतुदर्शनस्य ब्रह्महत्यादिपापनिवर्तकत्वस्य च प्रसिद्धत्वादिति भावः । ननु सेत्वादिदर्शनस्य सेतुविषयाज्ञाननिवृत्तिद्वारेण स्वजन्यादृष्टद्वारेण वा ब्रह्महत्यादिनिवर्तकत्वं न साक्षात् । प्रकृते च साक्षाज्ज्ञाननिवर्त्यत्वं विवक्षितमिति चेन्मैवं वोचः । सेतुदर्शनेन युगपदज्ञानब्रह्महत्ययोर्द्वयोरपि निवृत्तिसम्भवात् । ब्रह्महत्यायाः सेत्वज्ञानानुपादानत्वेनाज्ञाननिवृत्त्या ब्रह्महत्यादिनिवृत्तिरित्यस्यासम्भवदुक्तिकत्वाच्च । यदप्यदृष्टद्वारेणेति तदपि न साधनीयः । सेतुदर्शनानन्तरमेव ब्रह्महत्यादिनिवृत्तिसम्भवे तस्यादृष्टद्वारत्वकल्पने मानाभावात् । अन्यथा दृष्टमात्राः पुनन्तीति सेतुं दृष्ट्वेति श्रुतदर्शनत्यागेन तज्जन्यादृष्टस्य निवर्तकत्वकल्पने तरति शोकमात्मविदिति तदा विद्वान्नामरूपाद्विमुक्त इति श्रुतस्यापि ज्ञानस्य त्यागेन तज्जन्यादृष्टस्यैवाज्ञाननिवर्तकत्वं स्यात् । नन्वथाऽपि न ज्ञानत्वेन सेतुदर्शनादेर्ब्रह्महत्यादिनिवर्तकत्वम् । किन्तु विहितक्रियात्वेन । प्रकृते च ज्ञानत्वेन तन्निवर्त्यत्वं विवक्षितमिति चेन्न । ब्रह्मज्ञानस्यापि विहितक्रियात्वेनैवाज्ञाननिवर्तकत्वं न तु ज्ञानत्वेनेति सुवचत्वादित्यास्तां विस्तारः ।

Loading…