अविद्याप्रमाणनिरासः
किश्च किमिदं प्रकाशकत्वं नाम । ज्ञापकत्वं वा ज्ञापकाप्यायकत्वं वा ज्ञानत्वं वा । नाद्यः । चक्षुरादौ व्यभिचारात् । दृष्टान्तस्य साधनविकलत्वाच्च । ज्ञाने ज्ञानकारणत्वाभावेनासिद्धेश्च । न द्वितीयः । असिद्धेः । अञ्जनादौ व्यभिचाराच्च । न तृतीयः । साधनविकल- त्वात् दृष्टान्तस्य । न किञ्चिदहमवेदिषमिति परामर्शसिद्धः सौषुप्तिकानु- भवोऽस्तु प्रमाणमिति चेन्न । तस्य ज्ञानाभावविषयतयोपपत्तेः । नन्वभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्य- त्वमिति चेन्न । साक्षिणा धर्मिप्रतियोगिग्रहणोपपत्तेः ।
एवं प्रतिज्ञांशं निरस्याप्रकाशितार्थप्रकाशकत्वादिति हेतुं च दूषयितुं पृच्छति । किञ्च किमिति । ज्ञापकाप्यायकत्वं ज्ञानहेतुसहकारित्वमित्यर्थः । ज्ञापकत्वं नाम ज्ञानकरणत्वं वा ज्ञानहेतुत्वमात्रं वेति विकल्प्याद्ये दोषमाह || चक्षुरिति । चक्षुरादिज्ञानकरणनिवर्त्याज्ञानानभ्युपगमादिति भावः दृष्टान्तस्येति । दीपादिप्रभायां ज्ञानकरणत्वाभावादिति भावः । ज्ञाने पक्षीभूतप्रमाणज्ञाने । एतेन द्वितीयोऽपि निरस्त: ।। असिद्धेरिति । ज्ञाने ज्ञानहेतुसहकारित्वाभावादिति भावः । एतेन तमोनिवर्तकत्वं प्रकाशकत्वमिति प्रत्युक्तम् । अज्ञानान्धकारयोरनुगततमस्त्वाभावात् । शब्दसाम्येनानुगमे च गोत्वेन वाचः शृङ्गित्वसाधनं च स्यादिति भावः । एवमज्ञानेऽनुमानं निरस्य प्रत्यक्षमपि व्युदसितुमाशङ्कते ॥ नेति । सुप्तोत्थितस्य तावदेतावन्तं कालं न किञ्चिदहमवेदिषमित्यज्ञानविषयक परामर्शशब्दितस्मृतिरस्तीत्यविवादम् । सा च स्मृति: सुषुप्तावज्ञानानुभवाभावे न सम्भवतीत्युत्तरस्मृत्यन्थाऽनुपपत्त्या कल्पितसौषुप्तिकानुभव एवाज्ञाने प्रमाणमित्यर्थः । परमर्शस्यान्यथोपपत्तिमाह ।। तस्येति । परामर्शस्येत्यर्थः । तथा च सौषुप्तिकानुभवोऽपि तत्समानविषयत्वाज्ज्ञानाभावविषयक इति नानेन भावरूपाज्ञानसिद्धिरिति भावः । ननु न ज्ञानाभावविषयकत्वेन तस्यान्यथोपपत्तिर्वक्तुं शक्या । सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति न्यायेनाभावज्ञानस्य धर्मिप्रतियोगिज्ञानसाध्यत्वात्तत्सत्त्वे च न किञ्चिदवेदिषमिति ज्ञानसामान्याभावप्रतीत्यसम्भवात्। सुषुप्तौ सर्वेन्द्रियाणामुपरतत्वेन धर्मिप्रतियोगिज्ञानासम्भवाच्च । अतो भावरूपाज्ञानविषयत्वमेव वाच्यमिति शङ्कते ॥ नन्विति । तदभावे धर्मि प्रतियोगिबोधाभावे । तस्य ज्ञानाभावस्य ।। साक्षिणेति । तथा च साक्षिणा धर्मिप्रतियोगिग्रहणे सत्यन्त: करणवृत्तिरूपज्ञानाभावोऽनुभवितुं शक्यः । प्राकृतेन्द्रियाणामुपरमेऽपि स्वरूपेन्दियस्यानुपरमात् । भावरूपाज्ञानस्यापि धर्मिप्रतियोगिनिरूप्यत्वेन तयोर्ज्ञाने च वृत्तेरेव त्वन्मतेऽज्ञानविरोधित्वेन तद्विषयकाज्ञानानुभवायोगेन साक्षिणैव धर्मिप्रतियोगिग्रहणस्य वाच्यत्वात् । अन्यथेदानीं वेदान्तश्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानस्य त्वयाऽपि वक्तव्यत्वाच्चेति भावः ।