अविद्याप्रमाणनिरासः
यत्तु कश्चिदाह नाज्ञानं ज्ञानाभावः । अभावमाना- गम्यत्वात् । सम्प्रतिपन्नवत् । अभावो ह्यभावस्य प्रत्यक्षस्य वा विषयः । अज्ञानं च न मानगम्यम् । माननिवर्त्यत्वात् । सम्प्रतिपन्नवदिति । तदसत् । अज्ञानस्य मानागम्यत्वे तत्साधनायानुमानकथनायोगात् । एतन्मान - गम्यत्वेन मानागम्यमिति व्याघातः । फलव्याप्यताऽभावेऽपि वृत्तिव्याप्य - तामात्रेण तत्रानुमानप्रवृत्तिरिति न युक्तम् । अज्ञानस्य वृत्तिव्याप्य- तानङ्गीकारात् । न च प्रमाणनिवर्त्यत्वस्य प्रमाणागम्यत्वेन व्याप्तिरस्ति । प्रत्यभिज्ञाप्रमाणनिवर्त्यस्य संस्कारस्य मानगम्यत्वात् । न च त्वदुक्तमर्थं न जानामीत्यादिव्यवहारोऽत्यन्तसुप्ते ज्ञायमाने चाज्ञायमानेऽसम्भाव्यमानोऽज्ञानं गमयतीति युक्तम् ।
एवं सौषुप्तिकानुभवस्य ज्ञानाभावविषयकत्वेनान्यथासिद्धिमुक्त्वा केनचिदुक्तमज्ञानसाधकं न्यायमपाकर्तुमनुवदति ॥। यत्त्विति । यदाह तदसदित्यन्वयः । न किञ्चिदवेदिषमित्यादिना सिद्धमज्ञानं पक्षः । न ज्ञानाभाव इति साध्यम् । अभावमानागम्यत्वादुपलब्ध्यभावागम्यत्वात्प्रमाणागम्यत्वाच्चेत्यर्थः ।। सम्प्रतिपन्नवदिति । हेतुसाध्यवत्तया सम्मतपटादिवदित्यर्थः । द्वितीये व्यतिरेकदृष्टान्त इति भाव: । नन्वभावस्याप्यनुपलब्धिमानागम्यत्वे कथं ताभ्यां हेतुभ्यां ज्ञानाभावरूपत्वाभावसाधनं विरुद्धत्वादित्यत आह ।। अभाव इति । घटपटादिप्रमेयाभाव इत्यर्थः ॥ अभावस्येति । प्रतियोग्युपलब्ध्यभावस्येत्यर्थः । अभावस्यानुपलब्धिमानगम्यत्वं प्रसिद्धमिति हिशब्देनाह । अभावमानागम्यत्वादिति हेत्वोरसिद्धिं परिहर्तुमज्ञानस्य प्रमाणमात्राविषयत्वं समर्थयते ॥ अज्ञानं चेति ॥ सम्प्रतिपन्नवदिति । शुक्तिरूप्यवदित्यर्थः । अविद्याया अविद्यात्वे इदमेव हि लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यत इति सुरेश्वरोक्तेरिति भाव: ।। अनुमानकथनेति । प्रमाणज्ञानं स्वप्रागभावेत्याद्यनुमानकथनायोगात् । कथ्यते च । अतस्त्वया कथ्यमानानुमानरूपैतन्मानगम्यत्वेन मानागम्यत्वसाधनं व्याहतमित्यर्थः । यद्वाऽज्ञानं मानागम्यमिति वाक्यममानमुत मानम् । आद्येऽज्ञानस्य मानगम्यत्वसिद्धिः । द्वितीये दोषमाह । एतदिति । अज्ञानं मानागम्यमित्येवं वाक्यरूपमानगम्यत्वेन माननिवर्त्यत्वादित्यनुमानरूपमानगम्यत्वेनेति वाऽर्थः । नन्विदमयुक्तम् । अविद्याया वृत्तिप्रतिफलितचैतन्यरूपफलवेद्यत्वाभावेन मानागम्यत्वोक्तावप्यन्त:करणवृत्तिवेद्यत्वेनानुमानकथनमुपपद्यते । अतो न व्याघात इति भावेनाशङ्कय निराकरोति ।। फलेति । वृत्तिप्रतिफलितं चैतन्यं फलम् । अनङ्गीकारादिति । अज्ञानस्य यावत्सत्त्वं प्रतिभासमानत्वेन वृत्तेश्व कादाचित्कत्वेन शुद्धचैतन्याभासत्वस्य त्वयाऽङ्गीकारात् । वृत्तेरज्ञानविरोधित्वेनाज्ञानस्य वृत्तिव्याप्यताऽसम्भवाच्चेति भावः । एवमज्ञानं न मानगम्यमिति प्रतिज्ञांशं निरस्य व्याप्तिं च निरस्यति ॥ न चेति । किञ्चेति चार्थः । व्याप्त्यभावमेवोपपादयति ।। प्रत्यभिज्ञेति । उपलक्षणमेतत् । उत्तरज्ञाननिवर्त्यपूर्वज्ञानस्य विषये दोषदर्शननिवर्त्यस्य रागादेर्गरुडध्याननिवर्त्यस्य विषादेश्च मानगम्यत्वेन व्यभिचारादिति बोध्यम् । एवं सौषुप्तिकानुभवस्य ज्ञानाभावविषयत्वेनान्यथोपपत्तिमुक्त्वा त्वदुक्तमर्थं न जानामीत्यादिव्यवहारान्यथाऽनुपपत्तिकल्पितानुभवस्याप्यन्यथोपपत्तिं वक्तुं तमाशङ्कय निराकरोति ।। न चेति । इत्यादीत्यादिपदेनाहमज्ञो मामन्यं च न जानामीति व्यवहारो ग्राह्यः । सुप्ते आत्मनीति शेषः । ज्ञायमाने चेत्यनन्तरमर्थ इति शेषः । अयमर्थः । त्वदुक्तमर्थं न जानामीत्यादि व्यवहारोऽस्तीति तावदविवादम् । व्यवहारश्चानुभवं विना न सम्भवतीति तदन्यथानुपपत्तिकल्पिताज्ञानानुभवोऽज्ञाने मानम् । न चायं व्यवहारो ज्ञानाभावविषयः । आत्मनि सुप्ते सत्यात्मरूपधर्मिज्ञानाभावेनानुपपद्यमान इत्यात्मज्ञाने सत्येव तथा व्यवहारो वाच्यः । सोऽप्ययुक्तः । आत्मज्ञाने सति न जानामीति ज्ञानसामान्याभावव्यवहारासम्भवात् । तथाऽर्थं न जानामीति ज्ञानाभावज्ञानार्थं प्रतियोगिनि ज्ञाने ज्ञायमाने सति ज्ञानस्य विषयनिरूप्यत्वेन ज्ञानावच्छेदकतया विषयस्यापि ज्ञायमानत्वेन तज्ज्ञानाभावायोगात् । अज्ञायमाने च प्रतियोगिज्ञानाभावेन हेत्वभावादेव ज्ञानाभावज्ञानायोगात् । भावरूपाज्ञानवादे तु धर्मिप्रतियोगिनो: साक्षिणा ग्रहणेऽपि वृत्त्यभावेन व्यवहारोपपत्तेः । वृत्तेरेवाज्ञानविरोधित्वेन साक्षिणोऽविरोधिवादिति ।