Join Tattvasudhā to study.

अविद्याप्रमाणनिरासः

§5Mūla

किमत्र सर्वानुवादेन व्यवहारः किं वा सामान्यतः । नाद्यः । तादृशव्यवहरस्यैवाभावात् । भावे वा त्वदुक्तं न प्रमाणतो जानामीत्येवम्परत्वोपपत्तेः । प्रतिवादिवाक्यादधिगतार्थस्यानुवादपुरस्सरं प्रमाणाभावेन निरसनदर्शनात् । न च त्वदुक्ते प्रमाणज्ञानं मम नास्तीत्यस्य विशिष्टविषयज्ञानस्य प्रमाणत्वात्तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात्स्व- वचनव्याघात इति युक्तम् । एतत्प्रमाणज्ञानस्य प्रमाणाभावविषयत्वेऽपि तदर्थस्यानेतद्विषयत्वात् । अन्यथा भ्रमो ममासीदित्यादिप्रमाणज्ञानस्यापि विशिष्टभ्रमविषयतया भ्रमविषयस्यापि प्रामाणिकतापातात् ।

व्यवहारस्य ज्ञानाभावविषयत्वेनान्यथोपपत्तिं वक्तुं त्वदुक्तमर्थं न जानमीत्यनुवादः केन प्रकारेणेति पृच्छति ।। किमत्रेति । त्वदुक्तमर्थं न जानामीत्यत्रेत्यर्थः ॥ सर्वेति । इदं न जानामीदं न जानामीति विशिष्य प्रातिस्विकरूपेणेत्यर्थः ॥ सामान्यत इति । अर्थत्वेन रूपेण न तु तत्तद्विशेषेणेत्यर्थः । तादृशेति । प्रातिस्विकरूपेण न जानामीत्येवंरूपेत्यर्थः || भावे वेति । तादृशव्यवहरस्येति सम्बन्धः । न प्रमाणत इति । तथा च परोक्तवाक्याभासावगतं तं तं विशेषं प्रातिस्विकरूपेणानूद्य तत्तद्विशेषविषयकप्रमाणवृत्त्यभावो व्यवहर्तुं शक्य एवेति भावः । सुप्रसिद्धं चैतदित्याह ।। प्रतिवादीति ।। अनुवादेति । प्रातिस्विकरूपेणेति शेषः । त्वदुक्तं न प्रमाणतो जानामीत्यत्र व्याहतिमाशङ्कते । न चेति । त्वदुक्त इति विषयसप्तमी । त्वदुक्तार्थविषयकमित्यर्थः ॥ विशिष्टेति । अर्थावच्छिन्न प्रमाणज्ञानाभावविषयज्ञानस्येत्यर्थः ।। तद्विशेषणतयेति । निषेधप्रतियोगिप्रमाणज्ञानावच्छेदकतयेत्यर्थः ।। व्याघात इति । मेयं न मानापेक्षमितिवत्स्वक्रियाविरोध इति भावः । निषेध्यप्रमाणज्ञानविशेषणतया प्रमाणविषयत्वेऽपि न साक्षात्प्रमाणज्ञानविषयत्वं साक्षात्प्रमाणज्ञानाभावविषयत्वेन च न जानामीति व्यवहारोपपत्तिर्युक्तेति भावेन परिहरति । एतदिति । प्रमाणनिषेधविषयकप्रमाणज्ञानस्येत्यर्थः ।। प्रमाणेति । साक्षात्प्रमाण सामान्याभावविषयकत्वेऽपीत्यर्थः । तदर्थस्य निषेध्यप्रमाणज्ञानावच्छेदकार्थस्य | अतदिति । साक्षात्तद्विषयत्वाभावादित्यर्थः । परम्परया प्रमाणविषयकस्यापि प्रामाणिकत्वेन व्याघातकीर्तनेऽतिप्रसङ्गमाह || अन्यथेति ॥ विशिष्टेति । विशेषणविशेष्यभावापन्नेत्यर्थः ।

Loading…