Join Tattvasudhā to study.

अविद्याप्रमाणनिरासः

§5Mūla

न द्वितीयः । सामान्यानुवादेन विशेषव्यवहारोप- पत्तेः । विशेषस्याप्यधिगमानधिगमयोर्नैवं व्यवहार इति चेन्न । अस्ति कश्चिद्विशेष इति सामान्यतो ज्ञातत्वात् । किञ्च भावरूपाविद्या- भ्युपगमेऽपि किं पूर्वमर्थो ज्ञातो न वा । सर्वथाsपि प्रश्नायोगः । अस्माकं तु सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यविषय एवेति प्रमाणज्ञानोदयात्प्रागज्ञातत्वविशेषितोऽर्थः साक्षिसिद्धोऽनुवादगोचरो भवति च प्रश्नार्ह इति चेन्न । साक्षिसिद्धतयाऽपि सिद्धेऽर्थे व्यवहारा - योगात् । साक्षिणा ज्ञातेऽपि प्रमाणबुभुत्सया व्यवहार इति चेन्न । साक्षिसिद्धत्वे प्रमाणबुभुत्साया निष्फलत्वात् । तथा च त्वयाऽपि सामान्यतः सिद्धोऽर्थो विशेषज्ञानायानूद्यत इति वक्तव्यम् । वयमपि सामान्यतः साक्षिसिद्धस्य विशेषप्रमाणबुभुत्सया व्यवहारं ब्रूमः । तस्मान्नाविद्या निरूपणगोचरतामाचरतीति कुतस्तत्कार्यं कुतस्तरां चाविद्यातत्कार्ययोरन्यतरत्वस्य साध्यता सिद्ध्यतीति ॥ छ ॥ अविद्याप्रमाणनिरासः ॥ छ ॥

सामान्यानुवादेन न जानामीति व्यवहार इति द्वितीयं निराह || नेति । विशेषेति ।। तत्तदर्थविशेषविषयकज्ञानाभावविषयकतया त्वदुक्तमर्थं न जानामिति व्यवहारोपपत्तेर्न भावरूपाज्ञानकल्पकत्वमित्यर्थः । ननु यथा सामान्यस्यावगतत्वान्न सामान्यविषयकज्ञानाभावविषयकतया न जानामिति व्यवहारस्योपपत्तिस्तथा विशेषविषयकज्ञानाभावज्ञानार्थं प्रतियोगिभूतज्ञाने ज्ञातव्ये तदवच्छेदकस्य विशेषस्याप्यवगतत्वेन व्यवहारस्य तज्ज्ञानाभावविषयतानुपपत्तिर्विशेषस्याज्ञातत्वे तदवच्छिन्नज्ञानस्याप्यज्ञातत्वेन प्रतियोगिज्ञानरूपहेत्वभावादेव न तत्तद्विशेषविषयक ज्ञानाभावविषयकत्वम् । अतो भावरूपमज्ञानमकामेनाप्यङ्गीकार्यमिति भावेन शङ्कते ।। विशेषस्येति । अधिगमे तज्ज्ञानस्यैव सत्त्वादनधिगमे तदवच्छिन्नज्ञानरूप प्रतियोगिनोऽज्ञानादिति भावः । एवं न जानामीत्येवंरूपविशेषस्यापि सामान्यतो ज्ञातत्वेन विशेषाकारज्ञानाभावविषयतयोपपत्तिमाह । अस्तीति । ज्ञातत्वाद्विशेषस्येति शेषः । ननु विषमोऽयमुपन्यासः । सामान्याकारस्य ज्ञातत्वादेव न तदवच्छिन्नज्ञानाभावविषयत्वं विशेषाकारस्य त्वज्ञातत्वेन तद्विषयकज्ञानरूपप्रतियोगिनोऽज्ञानेन विशेषविषयकज्ञानाभावविषयकत्वं व्यवहारस्येत्याशङ्क्य तत्सामान्यज्ञानेनैव तद्विशेषज्ञानाभावज्ञानोपपत्तेस्तद्विशेषसंशयं प्रति तत्सामान्यनिश्चयवद्भावरूपाज्ञानवादेऽपि तद्विशेषवच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यमानस्येव हेतुत्वादिति वक्तुमुक्तबाधकं परपक्षेऽपि दर्शयन्विपर्यये पर्यवसानमाह । किञ्चेत्यादिना व्यवहारं ब्रूम इत्यन्तेन ।। प्रश्नायोग इति । अर्थे ज्ञाते तदवच्छिन्नाज्ञानायोगात् । अज्ञाते च तदवच्छिन्नाज्ञानज्ञानायोगात्। अवच्छेदकाज्ञानेऽवच्छिन्नज्ञानायोगेन त्वदुक्तार्थं न जानामि तमर्थं कथयेति प्रश्नायोगादित्यर्थः । मायावादी शङ्कते || अस्माकं त्विति । तुशब्देन ज्ञानाभाववाद्यपेक्षया वैलक्षण्यमाह । ज्ञाततया घटं जानामीत्यनु व्यवसायरूपज्ञानावच्छेदकतयेत्यर्थः । अज्ञाततया त्वदुक्तमर्थं न जानामीत्यज्ञानावच्छेदकतयेत्यर्थः । इत्यन्तं विवरणानुवादः । इतिशब्दो हेत्वर्थः ॥ प्रमाणेति । अन्तःकरणवृत्तिरूपप्रमाणज्ञानोदयात्पूर्वमित्यर्थः ।। अज्ञातत्वेति । ज्ञानायोगात्साक्षिणश्चाज्ञानस्फोरकत्वेन अज्ञानावच्छेदकतेत्यर्थः ॥ साक्षिसिद्ध इति । अवच्छेदकस्य विषयस्याज्ञानेऽवच्छिन्नाज्ञान तदविरोधित्वात्साधकस्य बाधकतायोगात् । तथा च साक्षिसिद्धमर्थमनूद्य सोऽर्थः कः, नाहं तमर्थं जानामीति प्रश्नो युज्यत इति भावः । त्वन्मते नित्यातीन्द्रियवृत्तौ सत्यामपि चैतन्याविषयत्वेनाज्ञानानिवृत्तेः सुखादौ वृत्त्यभावेऽपि चैतन्यविषयत्वेनाज्ञानादर्शनाच्चान्वयव्यतिरेकाभ्यां साक्षिचैतन्यस्यैवाज्ञानविरोधित्वेन साक्षिसिद्धेऽर्थे कथं न जानामीति व्यवहार इति भावं हृदि निधाय परिहरति ।। नेति । ननु सिद्धेऽप्यर्थेऽज्ञान विरोधिप्रमाणवृत्त्यभावेन तज्जिज्ञासया न जानामीति व्यवहार इति शङ्कते ॥ साक्षिणेति । साक्षिण एव प्रमाणत्वादुक्तरीत्या तस्यैवाज्ञानविरोधित्वाच्च न प्रमाणजिज्ञासा युज्यते । अन्यथा सुखादावपि तज्जिज्ञासा सुखं न जानामीति व्यवहारः स्यादिति भावेनाह । नेति ॥ निष्फलत्वादिति । अज्ञाननिवृत्तेर्व्यवहारादेः साक्षित एवं सम्भवादिति भावः । किञ्चेत्यादिनोक्तार्थस्य प्रकृतोपयोगमाह ॥ तथा चेति । भावरूपाज्ञानपक्षेऽपि तद्विषयस्य ज्ञानाज्ञानाभ्यां न जानामीति व्यवहारायोगे सतीत्यर्थः । त्वयाऽपि भावरूपाज्ञानवादिनाऽपि ॥ अनूद्यत इति । त्वदुक्तमर्थं न जानामीत्यादिरूपेणेत्यर्थः । वयमपि ज्ञानाभावविषयतयाऽन्यथोपपत्तिं वदन्तोऽपि । व्यवहारं न जानामीति व्यवहारम् । एवं केयमविद्येत्यारभ्यैतावत्पर्यन्तमज्ञाने लक्षणप्रमाणयोः खण्डनं कृतम् । तथाऽऽश्रयविषययोरभावादपि परमतेऽज्ञानासम्भवस्तु "निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेदि ' त्यादिना शास्त्रे द्रष्टव्य इति भावः । ननु भवत्वविद्या दुर्निरूपा, तथाऽप्यविद्यातत्कार्ययोरन्यतरत्वं मिथ्यात्वमित्यत्र किमायातमित्यतोऽविद्यादूषणोपसंहारव्याजेन तस्य प्रकृतोपयोगमाह ।। तस्मादिति । उक्तदूषणगणादित्यर्थः । सिध्यतीति शब्दः षष्ठपक्षदूषणसमाप्तौ । आद्यर्थको वा । तथा चायमर्थः । अनादौ जीव ब्रह्मविभागादावविद्यातत्कार्ययोरन्यतरत्वाभावेनाव्याप्तेः । अस्मन्मतेऽप्यज्ञानस्य तत्कार्यभ्रान्त्यादेश्च सत्त्वेनार्थान्तरत्वाच्च । शुक्तिरूप्यादावनिर्वाच्याविद्याकार्यत्वस्यास्माकमसम्मतेश्च ॥ छ ॥

Loading…