मिथ्यात्वनिरुक्तिनिरासोपसंहारः
न च भावरूपाज्ञाननिराकरणे सिद्धान्तविरोधः । परन्यायेन परनिराकरणात् । न सप्तमः । अत्यन्ताभावपदेनासत्त्वा- भिप्रायेऽपसिद्धान्तः । तदतिरिक्तस्याप्रसिद्धत्वात् । भाववैलक्षण्यमिति चेत्तर्हि तत एवासत्त्वापत्त्या नोक्तदोषनिवृत्तिः । तस्मान्न मिथ्यात्व - निरुक्तिः ॥ छ ॥ मिथ्यात्वनिरुक्तिनिरासोपसंहारः ॥ छ ॥
नन्वज्ञानस्य भवद्भिरप्यङ्गीकारात्तन्निराकरणं व्याहतमिति शङ्कते ॥ न चेति । परमत एवैते दोषा नास्मन्मत इत्याह ।। परेति । स्वमते तु स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदित्यादौ शास्त्रे तद्व्युत्पादनं व्यक्तमिति भाव: । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पक्षं प्रतिक्षिपति || न सप्तम इति ।। असत्त्वेति । स्वरूपेणात्यन्ताभावास्यासत्त्वे पर्यवसानादिति भावः । तदतिरिक्तस्येति । स्वरूपेणात्यन्ताभावप्रतियोगित्वादन्यस्यासत्त्वस्येत्यर्थः ॥ भावेति । सद्वैलक्षण्यमित्यर्थः । तथा च सद्वैलक्षण्यादेवासत्त्वापत्त्याऽपसिद्धान्तदोषस्यानिवृत्तिरित्याह ॥ तर्हीति । प्रतिज्ञांशदोषमुपसंहरति । तस्मादिति ।। छ ।