दृश्यत्वविकल्पनिरासः
नापि दृश्यत्वस्य । तथा हि । किमिदं दृश्यत्वम् । दृग्विषयत्वमस्वप्रकाशत्वं वा । आद्ये किं दृग्वृत्तिरूपा चिद्रूपा वा । नाद्यः । आत्मन्यनैकान्त्यात् । तस्यापि वेदान्तजनितवृत्तिविषयत्वात् । वृत्ति- जनितफलासम्बन्धान्नानैकान्त्यमिति चेत् । फलं ज्ञातता, व्यवहारो वा । आद्ये घटादावपि तदभावादसिद्धिः ।
एवं प्रतिज्ञांशं दूषयित्वा हेत्वंशमपि दूषयति । नापीति । निरुक्तिरिति सम्बध्यते । न केवलं मिथ्यात्वस्येत्यपेरर्थः । अनैकान्त्यादिति | ब्रह्मणि वृत्तिविषयत्वे सत्यपि मिथ्यात्वाभावादिति भावः । हेतोरभावान्न व्यभिचार इत्याशङ्क्याह || तस्येति । अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्च वैय्यर्थं स्यात् । ब्रह्मविचारवतोर्गुरुशिष्ययोः क्रमेण मौनं मौढ्यं च स्यादिति भावः । यत्तु विपक्षे धर्मिसमसत्त्वस्य हेतोस्सत्त्वे व्यभिचारः । न त्वारोपितस्यानुमानमात्रोच्छेदात् । दृश्यत्वं च व्यावहारिके जगतीव पारमार्थिके ब्रह्मण्यपि व्यावहारिकमेवेति न व्यभिचार इति । तत्तुच्छम् । ब्रह्मजगतो: पारमार्थिकत्वव्यावहारिकत्वविभागस्य मिथ्यात्वसिद्ध्युत्तरकालीनत्वात् । यदपि धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु । ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वविषयत्वमात्रस्य हेतुत्वसम्भवेन शेषवैय्यर्थ्यादित्यलम् । ननु दृश्यत्वं नाम न वृत्तिविषयत्वं किन्तु तत्कर्मत्वम् । तच्च वृत्तिजन्यफलाधारत्वम् । परसमवेतक्रियाफलशालित्वस्यैव कर्मलक्षणत्वात् । ब्रह्मणश्च तदभावान्न व्यभिचार इति शङ्कते ।। वृत्तीति ।। ज्ञाततेति । व्यवहारे भट्टनय इत्यभ्युपगमेन भट्टरीत्याऽयं कल्पः । व्यवहार इति सिद्धान्तरीत्येति बोध्यम् । सिद्धान्तरीत्या दोषमाह । घटादाविति । न केवलमतीतानगतादावित्यपेरर्थः । न केवलं ब्रह्मणीति वार्थः । ज्ञानविषयताव्यतिरेकेण ज्ञाततासद्भावे मानाभावादिति भावः ।