दृश्यत्वविकल्पनिरासः
अतीतानागतनित्यानुमेयेषु ज्ञातताभावाद्भागासिद्धिश्च । तथा हि । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति तल्लक्षणमभिदधता चित्सुखेनापरोक्षव्यवहारयोग्यताविशेषणकृत्याभिधान- प्रस्तावेऽभिहितम् । न चावेद्यत्वमित्येतावदेवास्तु तल्लक्षणमिति वाच्यम् । तथा सत्यतीतानागतनित्यानुमेयेषु चातिव्याप्तेः । फलव्याप्यतालक्षण- वेद्यत्वस्य तत्राभावादिति । द्वितीये पुनरनैकान्त्यमेव । आत्मनोऽपि वृत्तिजन्यव्यवहारविषयत्वात् । चिद्रूपदृग्विषयत्वं तु घटादावस्माभिर्ना- ङ्गीक्रियत इति भागासिद्धिः । स्वप्रकाशत्वं च निर्वक्तव्यं यदभावो दृश्यत्वम्। अवेद्यत्वमिति चेत्तर्हि वेद्यत्वं दृश्यत्वमित्युक्तं स्यात् । तथा च प्रागुक्तविकल्पदोषापातः ।
पररीत्या च दूषयति । अतीतेति । नन्वतीतानागतयोरपि कदाचिज्ज्ञातताधारत्वादित्यरुच्याऽऽह ॥ नित्यानुमेयेष्विति । तत्र कदाऽप्यभावादिति भावः । एतेन वृत्तिप्रतिफलितं चैतन्यं फलमिति नवीनमतमपि प्रत्युक्तम् । अस्मन्मते घटादावप्यभावेनासिद्धेः । त्वन्मते चातीतानागतयोरभावात् । तयोः कदाचित्तत्सम्भवेऽपि नित्यानुमेये कदाऽप्यभावेन भागासिद्धेः । ननु परमते कथमतीतादौ ज्ञाततारूपफलाभावः कथं च वृत्तिप्रतिफलितचैतन्यरूपफलाभावश्चेत्यतो द्वयमपि चित्सुखवचनेन संवादयितुं प्रतिजानीते ॥ तथा हीति । न चावेद्यत्वमित्यारभ्य तत्राभावादित्यन्तं चित्सुखवाक्यानुवादः ।। फलव्याप्यतेति । ज्ञातताधारत्वरूपस्य वृत्तिप्रतिफलितचैतन्यविषयत्वरूपस्य चाभावादित्यर्थः । न च नित्यानुमेयमपि योगिनं प्रति फलव्याप्यमिति वाच्यम् । चित्सुखेनैव न च योगिप्रत्यक्षगम्यतयाऽपरोक्षत्वम् । धर्मादीनां चोदनैकप्रमाणगम्यत्वादित्युक्तत्वेन तद्विरोधादिति भावः । व्यवहारः फलमिति कल्पं निराह । द्वितीय इति ॥ व्यवहारविषयत्त्वादिति ।। तथा च व्यभिचार इति भावः । चिद्रूपदृग्विषयत्वं दृश्यत्वमिति प्राग्विकल्पितं पक्षं निराह ॥ चिद्रूपेति । सुखदुःखादौ चिद्विषयत्वसत्त्वेऽपि घटादावभावेन भागासिद्धिरित्यर्थः । अस्वप्रकाशत्वं दृश्यत्वमिति द्वितीयपक्षं प्रतिक्षेप्तुं तत्प्रतियोगिभूतस्वप्रकाशत्वं पृच्छति ॥ स्वप्रकाशत्वं चेति । ननु दृश्यत्वापाकरणप्रस्तावे प्रकाशत्वप्रश्नोऽयुक्त इत्यत आह । यदिति । प्रागुक्तविकल्पेति । वेद्यत्वं किं वृत्तिवेद्यत्वं वा चिद्वेद्यत्वं वा वृत्तिजन्यफलसम्बंधित्वं वा, फलं च ज्ञातता व्यवहारो वा वृत्तिप्रतिफलितचैतन्यं वेति विकल्पानां तेषूक्तदोषाणां चापात इत्यर्थः ।