दृश्यत्वविकल्पनिरासः
स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वप्रकाशत्वं तद- भावो दृश्यत्वमिति चेत्तर्ह्यात्मनोऽप्यद्वितीयव्यवहारे संविदन्तरापेक्षासद्भावाद्व्यभिचारः । निर्विकल्पकस्वव्यवहारे संविदन्तरानपेक्ष आत्मेति चेत्तर्हि घटोsपि तथैवेत्यसिद्धिः । घटे निर्विकल्पकव्यवहार एव नास्तीति चेदात्म- न्यपि स नास्त्येव । सुषुप्तावस्तीति चेन्न । तस्यापि निर्विकल्पकत्वे विवादात् । अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं स्वप्रकाशत्वमिति चेन्न । व्याहतत्वेनासम्भवित्वात् । कथञ्चिदव्याहतत्वेऽपि विशेषणाभावेनोत विशेष्याभावेनाथोभयाभावेन दृश्यत्वं निर्वक्तव्यम् । तत्राद्येऽवेद्यत्वाभावो वेद्यत्वमेव हेतुरस्तु किं विशेष्येण । तस्य चोक्तं दूषणम् । द्वितीये स्वरूपासिद्धिः । तृतीये व्यर्थविशेष्यत्वं विशेष्यासिद्धिश्चेति ॥ छ ॥ दृश्यत्वविकल्पनिरासः ॥ छ ॥
।। स्वव्यवहार इति । स्वगोचरव्यवहार इत्यर्थः ॥ स्वतिरिक्तेति । स्वाभिन्नेत्यर्थः । ब्रह्मणः स्वप्रकाशत्वेन स्वव्यवहारे न ज्ञानान्तरापेक्षा घटादेरस्वप्रकाशत्वेन स्वव्यवहारेऽन्यापेक्षत्वमिति भावः । स्वव्यवहार इति व्यवहारपदेन सविकल्पकव्यवहारो वा निर्विकल्पकव्यवहारो वा विवक्षित इति विकल्प्याद्ये दोषमाह ।। तर्हीति । एकमेवाद्वितीयमित्यादिवेदान्तवाक्यजन्यवृत्तिमपेक्ष्यैवाद्वितीयं स्वप्रकाशमित्यादिविशिष्टव्यवहारविषयत्वाद्ब्रह्मणि व्यभिचार इति भावः । द्वितीयं शङ्कते ॥ निर्विकल्पकेति । अद्वितीयत्वादिधर्मशून्यात्मस्वरूपमात्रगोचरव्यवहार इत्यर्थः । तथैवेति । निर्विकल्पके स्वव्यवहारे ज्ञानान्तरानपेक्ष इत्यर्थः । असिद्धिरिति । उक्तरूपदृश्यत्वस्येति शेषः । मानाभावेन घटादौ तथा व्यवहार एव नास्ति येनासिद्धि: स्यादिति शङ्कते ॥ घट इति । नास्त्येवेति । तथा च व्यभिचार इति भावः । सुप्तावात्मनि तथा व्यवहारोऽस्तीति शङ्कते । सुषुप्ताविति । तस्यापीति । सौषुप्तिकव्यवहारस्यापीत्यर्थः || विवादादिति । एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शेन तस्य विशिष्टत्वेनैव सिद्धेरिति भावः । चित्सुखोक्तमाशङ्कते ॥ अवेद्यत्व इति । । घटादावतिव्याप्तिवारणाय विशेषणम्। नित्यातीन्द्रियेऽतिव्याप्तिवारणाय विशेष्यमित्याहुः । अत एव तदभावरूपदृश्यत्वं च घटादौ विशेषणाभावेन नित्यातीन्द्रिये विशेष्याभावेनेति विशिष्टाभावरूपमनुगतमिति भावः । अत्रापरोक्षव्यवहारपदेन तद्विषयापरोक्षज्ञानजन्यव्यवहारो विवक्षित उत व्यवह्रियतेऽनेनेति व्युत्पत्त्याऽपरोक्षज्ञानं वा । पक्षद्वयमपि न सम्भवतीत्याह । व्याहतत्वेनेति । अवेद्यत्वे सतीति ज्ञानसामान्याविषयत्वाभ्युपगमेन विशिष्टं व्याहतमिति तदभावरूपदृश्यत्वमसिद्धमिति भावः । नन्ववेद्यत्वं चिदविषयत्वं वृत्तिप्रतिफलितचिदविषयत्वं वा । न तु वृत्त्यविषयत्वं येन व्याघातः स्यादित्याशङ्क्याह || कथञ्चिदिति । अपिशब्देनात्राप्यरुचिमाह । तद्बीजं तु चित एव चिद्विषयापरोक्षव्यवहारहेतुत्वेन स्वस्य स्वाविषयत्वमङ्गीकृत्य स्वगोचरव्यवहारे हेतुत्वाभ्युपगमे व्याहतिरिति । तथाऽपि तुष्यतु दुर्जन इति न्यायेन दोषान्तरमाह । विशेषणेति ।। किं विशेष्येणेति । आद्ये वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं दृश्यत्वमिति हेत्वर्थः स्यात् । तत्र विशेष्यभागस्य ब्रह्मण्यपि सत्त्वेन वेद्यत्वादित्यस्य व्यभिचारावारकत्वाद्व्यर्थविशेष्यकत्वमित्यर्थः । वस्तु वेद्यत्वमेव हेतुरित्यत आह ।। तस्य चेति । वृत्तिवेद्यत्वं चिद्वेद्यत्वं वेत्यादिविकल्पदोषाणामपि तेन दूषितत्वादित्यर्थः ॥ स्वरूपासिद्धिरिति । चिदविषयत्वेन त्वदभिमतेऽतीन्द्रिये धर्माधर्मादाववेद्यत्वे सत्यपरोक्षव्यवहाराभावेन विशिष्टाभावरूपहेतुसत्त्वेऽपि घटादौ त्वदभिमतचिद्वेद्यत्वे मानाभावेन दृग्दृश्यसम्बन्धानुपपत्तिनिराकरणप्रस्तावे निरसिष्यमाणत्वेन चावेद्यत्वविशिष्टापरोक्षव्यवहारयोग्यत्वस्यैव तत्र सत्त्वेन तदभावरूपदृश्यत्वस्याभावेन भागासिद्धिरित्यर्थः । स्वरूपग्रहणं त्वन्त्यपक्ष इव विशेष्यभागमात्रस्यैवासिद्धिरित्यभिप्रेत्येति ध्येयम् । वस्तुतस्तु घटादाविवातीन्द्रिये धर्माधर्मादाववेद्यत्ववदपरोक्षेण योगजज्ञानेन धर्मादिकमहं जानामीत्यनुव्यवसायरूपप्रत्यक्षेण यो धर्मः स विहितक्रियाजन्य इति ज्ञानान्तरोपनीतधर्मविहितक्रिययोर्व्याप्ति विषयकमानसप्रत्यक्षेण वा जन्यापरोक्षव्यवहारविषयत्वस्यापि सत्त्वेन धर्मादाविव घटादावपि त्वदभिमतावेद्यत्वस्यापि सत्त्वेन विशेष्याभावस्य काप्यभावेन स्वरूपासिद्धिरेवेत्यर्थः ।। व्यर्थविशेष्यत्वमिति । वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावादिति हेत्वर्थ: स्यात्तत्र वेद्यत्वादित्येतावत एव हेतुत्वसम्भवादिति भावः । ननु चिद्विषयत्वरूपं वेद्यत्वमात्मन्यप्यस्ति । अत एव चित्सुखेन चिद्रूपस्याप्यात्मनश्चिद्विषयत्वमुपेत्य तदकर्मकत्वमुक्तम् । तथा चात्मनि व्यभिचारवारणायैव विशेष्यं सार्थकमित्यरुचेराह । विशेष्येति । उक्तरीत्या सर्वस्याप्यपरोक्षव्यवहारयोग्यत्वादिति भावः । इतिशब्दो दृश्यत्वविकल्पनिराससमाप्तौ ॥ छ ॥