Join Tattvasudhā to study.

दृश्यत्वहेतुनिरासः

§8Mūla

किश्च दृश्यत्वं प्रमाणतो वा भ्रान्त्या वा । नोभयमपि । अन्यतरासिद्धेः । ननु सामान्यतः प्रयुक्तस्य हेतोर्विशेषविकल्पैर्निराकरणे सर्वानुमानाभावप्रसङ्गः । तथा हि । धूमाद्धूमध्वजसाधने किमेतद्देशकाल - संलग्नो धूमो हेतुः किं वाऽनेतद्देशकालसंलग्न इति विकल्प्याद्ये साधनशून्यं निदर्शनम् । द्वितीयेऽसिद्धिरिति दूषणसम्भवादिति । मैवम् । तत्र धूममात्रस्य | । पर्वतेऽग्निसाधकत्वेनादूषणत्वाभ्युपगमात् । तर्हि किं वक्रो धूमो हेतुरिति विकल्पेन दूषणप्रसङ्ग इति चेन्न । तस्य सामान्यस्यैव हेतुत्वात् । न चास्तु तथा प्रकृतेऽपीति वाच्यम् । प्रमाणभ्रान्तिदृश्ययोर्दृश्यत्वसामान्याभावात् । न हि जलनभोनलिनयोर्नलिनत्वसामान्यमस्ति । तर्हि कथं भ्रान्तिदृश्यत्व- मित्युच्यत इति चेन्न । यथा नभो नलिनमित्युच्यते तथैवेत्यवेहि । दृश्यत्वस्य सन्मात्रवृत्तित्वाद्विरुद्धता च । न च शुक्तिरजतं दृश्यमिति वाच्यम् । तत्र शुक्तिकाया एव दृश्यत्वात् ।

किञ्च दृश्यत्वमित्यत्र दृक्शब्देन प्रमोच्यते भ्रमो वेति विकल्प्याद्ये तवासिद्धिः । अन्त्येऽस्माकमसिद्धिरित्याह । दृश्यत्वमिति । ननु दृश्यत्वं न प्रमाणतो नापि भ्रान्त्या येनोक्तदोषः स्यात् । किन्तूभयसाधारणमेव । न हि सामान्येनोक्तस्य विशेषविकल्पेन दोषोत्कीर्तनम् । अतिप्रसङ्गादिति शङ्कते ॥ नन्विति । सामान्यतो भ्रमप्रमासाधारण्येनेत्यर्थः । अतिप्रसङ्गमेवाह || तथा हीति । धूमध्वजो वह्निः ।। एतद्देशेति । पक्षत्वेनाभिमतो देश एतद्देशशब्देनोच्यते । यदा पक्षे हेतुरस्ति तत्काल एतत्कालशब्देनोच्यते । देशिकव्याप्तिकत्वेन कालिकव्याप्युपेतत्वेन वा सर्वानुमानानां द्वैविध्यात्तादृश सर्वानुमानोच्छेदज्ञापनाय देशकालोभयोपादानम् ।। अनेतदिति । पक्षदेशभिन्नदेशसम्बद्धस्तत्कालभिन्नकालसम्बद्ध इत्यर्थः । विकल्प्येत्यनन्तरं वर्तमानेन पुंसेति शेष: । दूषणमिति भावे ल्युट् । दूषणकरणसम्भवादित्यर्थः । तेन विकल्प्येति क्त्वाप्रत्ययोपपत्तिः ।। साधनशून्यमिति । पक्षदेशसम्बद्धस्य दृष्टान्तेऽभावादिति भावः । एतेनासिद्धिर्व्याख्याता । इतिशब्दः शङ्कासमाप्तौ । समाधत्ते ॥ मैवमिति । तत्रेति । धूमानुमान इत्यर्थः । धूममात्रस्यैतद्देशाद्यविशेषितस्य ।। अदूषणत्वेति । निर्दोषत्वेनाभ्युपगमात् । परीक्षकैरिति शेषः । शङ्कते ।। तर्हीति । धूमवत्त्वस्य साधकत्वेऽपीत्यर्थः । इति विकल्पेनेत्यत्रावक्रो धूम इति कोट्यन्तरं च ध्येयम् ।। दूषणेति । साधनवैकल्यादिनेति भावः । वक्रावक्रसाधारणधूमत्वाक्रान्तधूममात्रस्यैव हेतुत्वसम्भवे वक्रादिविशेषणं व्यर्थम् । गौरवपराहतं चेति भावेनाह || तस्येति । दृश्यत्वानुमानेऽपि भ्रमप्रमासाधारणदृश्यत्वमेव हेतुरस्त्विति शङ्कते । न चेति । वक्रावक्रधूमयोर्द्वयोरपि सत्त्वेन तत्र धूमत्वस्यानुगतसामान्यस्य सम्भवेऽपि प्रकृते न तस्य सम्भवः । प्रमाणदृश्यत्वस्य सत्त्वेऽपि भ्रान्तिदृश्यत्वस्यासत्त्वेन सत्यसति चानुगतसामान्याभावेनासिद्धिः स्यादिति भावेन परिहरति । प्रमाणेति । आश्रयाभावे तदनुगतधर्मस्याभाव इत्येतन्निदर्शनेनोपपादयति ।। न हीति । भ्रान्तिदृश्ये दृश्यत्वाभावे भ्रान्तिदृश्यत्वमिति व्यवहारायोग इति शङ्कते ॥ ॥ तर्हीति । उपचारोऽयं प्रयोग इति भावेन निदर्शनपूर्वमाह ।। यथेति । अवेहि अवगच्छेति । तथा च दृश्यत्वं जगत्यसिद्धमिति सुस्थमिति भावः । एवं लिङ्गदर्शनानन्तरं व्याप्तिस्मृतिरिति न्यायात्तेनैव क्रमेण हेतोराभासीकरणं मन्वानोऽसिद्धत्वं दृश्यत्वं प्रमाणत इत्यादिना प्रतिष्ठाप्येदानीं व्याप्तिविरहभेदौ विरुद्धानैकान्तिकौ । तत्र विरुद्धो विपरीतनिश्चयं करोति । अनैकान्तिकस्तु सन्देहमिति दुष्टत्वक्रमानुरोधेन व्याप्त्यभावमुपपादयन् विरुद्धतां तावदाह ।। दृश्यत्वस्येति । चस्त्वसिद्धिसमुच्चयार्थः || सन्मात्रेति । साध्यसम्बन्धरहितत्वे सति तदभावेनैव सम्बन्धो विरुद्ध इति विरुद्धलक्षणम् । तथा च दृश्यत्वस्य मिथ्यात्वरहितसत्पदार्थ एव सत्त्वेनोक्तलक्षणसत्त्वादिति भावः । ननु सति ब्रह्मणि दृश्यत्वस्याग्रे साधयिष्यमाणत्वेन मिथ्यात्वरूपसाध्याभावेन सम्बन्धे सत्यपि मिथ्याभूते शुक्तिरूप्ये च सत्त्वान्न साध्यसम्बन्धवैधुर्यमिति शङ्कते ।। न चेति । दृग्विषयत्वं हि दृश्यत्वं नाम । तथा च यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्यनित्यज्ञाने व्यवस्थितम् । रजतज्ञानं शुक्तिसन्निकृष्टेन जातमिति शुक्तिकाया एव दृश्यत्वमिति भावेन परिहरति ।। तत्रेति । भ्रान्तावित्यर्थः । अनभ्युपगमादिति । उक्तदिशा शुक्तिविषयकत्वादिति भावः । अविरोधमेवाह || स्वविषयेति । अन्याकारेण रूप्याकारेण । आकारान्तरेणेत्यपि कचित्पाठः ।

Loading…