Join Tattvasudhā to study.

दृश्यत्वहेतुनिरासः

§8Mūla

ननु रजतसंविदः कथं शुक्तिकाविषयो विरोधादिति चेन्न । रजतसंविद इति कोऽर्थः । किं रजतविषयाया इति रजतत्वोल्लेखिसंविद इति वा । नाद्यः । अनभ्युपगमात् । द्वितीये को विरोधः । स्वविषयशुक्तिकामेवान्याकारेण गृह्णातीत्यस्याविरुद्धत्वात् । ननु तर्ह्यपि रजतेऽस्ति कथञ्चिद्दृश्यतेति चेन्न । तस्य दृश्यत्वाभासत्वात् । तादृशस्य पक्षेऽनन्वयात् । किञ्च रजतस्य फलव्याप्यतया वृत्तिव्याप्यतया वा दृश्यत्वम्। नोभयमपि । अध्यस्ततयैव तत्सिद्ध्यभ्युपगमात् । न च तत्प्रतीतावुपायान्तरं वाऽस्ति । सन्निकर्षाभावात् । आत्मनोऽपि दृयशत्वाद- नैकान्तिकता च । नात्मा दृश्यत इति चेन्न । व्याहतेः । न ह्यज्ञाते धर्मिणि धर्मविधानं तन्निषेधो वा युज्यते । आत्मा दृश्यो वस्तुत्वाद्घटवत् । अयं घट एतद्घटात्मान्यान्यदृश्यान्यः प्रमेयत्वाद्घटवदिति च तस्य दृश्यत्वसिद्धेः ।

॥ नन्वेवमपि रूप्ये हगुल्लेखित्वेनापि दृश्यत्वमागतमिति शङ्कते । नन्विति । तर्ह्यपि दृग्विषयत्वाभावेऽपीत्यर्थः । कथञ्चिगुल्लेखित्वेन दृश्यताऽस्तीत्यन्वयः ।। दृश्यत्वाभासत्वादिति । रजते दृश्यत्वस्य कल्पित- त्वादित्यर्थः । रजतं दृष्टमिति भ्रममात्रत्वादिति भगवत्पादोक्तेरिति भावः । ननु यादृशं रजते दृश्यत्वं तादृशमेव प्रकृते हेतुरस्तु । तथा च न विरुद्धत्वमित्याशङ्क्याह । तादृशस्येति । असिद्धिप्रसङ्कादिति भावः । एवं स्वरीत्या रूप्ये दृश्यत्वाभावं प्रतिपाद्य पररीत्याऽपि तमाह । किञ्चेति ॥ फलेति । अन्तःकरणवृत्तिप्रतिफलितचैतन्यविषयतयेत्यर्थः ।। वृत्तीति । अन्तःकरणवृत्तिविषयतयेत्यर्थः ॥ अध्यस्ततयेति । प्रतिभासमात्रशरीर- तयेत्यर्थः । ननु तन्मतेऽधिष्ठानस्यैव तदुभयविषयत्वेन रूप्यस्य तदभावेऽप्य- विद्यावृत्त्या तत्प्रतिफलितचैतन्यरूपफलेन व्याप्यत्वमङ्गीकृतमिति कथं तस्य न दृश्यत्वमिति चेन्न । तादृशदृश्यत्वस्य पक्षेऽभावेनासिद्ध्यापत्त्या तस्याहेतुत्वा- दिति भावः । किञ्च शुक्तिरूप्यस्या दृश्यत्वमिन्द्रियसन्निकर्षादिरूपसामग्र्य- भावाच्चेत्याह ॥ न चेति । सन्निकृष्टस्यैव ज्ञानविषयत्वात्परोक्षस्थलेऽपि व्याप्त्यादिरूपप्रत्यासत्तेः सत्त्वादिति भावः । इदानीं क्रमप्राप्तं व्यभिचारं च वक्तुं दृश्यत्वं वृत्तिव्याप्यत्वं वा फलव्याप्यत्वं वेति विकल्प हृदि कृत्वाsss आह ।। आत्मन इति । न केवलं सपक्षस्य शुक्तिरूप्यादेः किन्तु विपक्षस्यात्मनोऽपीत्यपेरर्थः । हेतोरेवाभावान्न दोष इति शङ्कते ॥ नेति । मूकोऽहमिति वत्स्वक्रियाविरोध- लक्षणव्याहतिमेवोपपादयति ।। न हीति । धर्मविधानमिति दृष्टान्तार्थम् । दृश्यत्वरूपधर्मनिषेधस्यैव प्रस्तुतत्वात् । आत्मनि दृश्यत्वं निषेधता परेणात्मा ज्ञातव्य इति भावः । ननु न बाधकाभावमात्रेण वस्तुसिद्धिः । मानाधी- नत्वान्मेयसिद्धेरित्याशङ्क्यात्मनो दृश्यत्वं साधयति ।। आत्मेति । नन्वात्मनो वस्तुत्वमसिद्धम् । निर्धर्मकत्वात् । न च निर्धर्मकत्वस्य भावाभावाभ्यां विरोधः । अभावरूपधर्माङ्गीकारात् । कल्पितस्य च रूप्यादौ सत्त्वेन व्यभिचारापत्तेरित्याशयेनानुमानान्तरमाह ॥ अयं घट इति । इन्द्रियसन्निकृष्टः पुरोवर्तिघटविशेषोऽयमिति परामृश्यते । एतद्भट: पक्षीकृतो घट:, स चात्मा च ताभ्यां यदन्यत्तदुभयभिन्नं विश्वं तदन्यद्यद्दृश्यमात्मरूपं तदन्य इत्यर्थः । अत्र यद्यप्येतद्घटात्मान्यान्यदृश्यं पक्षीकृतघटो भवति तथाऽपि स्वस्य स्वान्यत्वं बाधितमित्यात्मनो दृश्यत्वसिद्धिः । दृष्टान्ते घटे च तथाभूतैद्घटान्यत्वेन साध्यं बोध्यम् । दृश्यान्य इति कृते पटान्यत्वेनार्थान्तरमत एतद्घटान्यान्येति विशेषणम् । तावत्युक्ते बाधः । अत आत्मेत्युक्तम् । आत्मान्यान्यदृश्यान्य इति कृते यद्यप्यात्मनो दृश्यत्वसिद्धिः । तथाऽपि दृष्टान्ते साध्यवैकल्याद्व्याप्तिवैकल्यं प्रसज्येत । अत एतद्धटेति विशेषणम् । एतद्वटात्मान्यदृश्यान्य इति कृते तादृशपटान्यत्वेनार्थान्तरता । अतोऽन्यान्येति सर्वं सार्थकम् । विपक्षे बाधकस्य प्राचीनवाक्ये प्रतिपादितत्वेन नाप्रयोजकत्वं शङ्कनीयम् । अत एवायं घट एतद्घटात्मान्यान्यनित्यान्यः । तथाविधा- चेतनान्य इत्याभाससाम्यमपास्तम् । तत्र विपक्षे बाधकाभावेनाप्रयोजकत्वात् । अत एवेति चेति प्रागुक्तबाधकसमुच्चयार्थश्चकारः । तथा दृश्यते त्वग्र्यया बुद्धया तमेव धीरो विज्ञायेत्यादिश्रुत्या सर्वप्रत्ययवेद्ये च ब्रह्मरूप इत्यादि- स्ववचनेन विरोधश्च स्यात् । वेदान्तानां वैय्यर्थ्यं च स्यात् । इत्यादि- विपक्षबाधकेन चानुगृहीतत्वादन्योऽपि क्षुद्रोपद्रवः परिहार्य इति भावः ।

Loading…