Join Tattvasudhā to study.

दृश्यत्वहेतुनिरासः

§8Mūla

किञ्च दृश्यत्वाभावे तदविद्यानिवृत्त्यभावेन मोक्षाभाव- प्रसङ्गः । न च त्वत्पक्षे ब्रह्मज्ञानं नाम यत्किञ्चित्स्यात् । षष्ठ्यर्थस्य विषयताऽनतिरेकात् । यद्धि श्रुतमयेन ज्ञानेन तत्त्वमभिधाय चिन्तामयीमवस्थामवलम्बमानस्यान्तःकरणपरिणामवृत्तिरूपं ज्ञानमुपजायते तेन भवेदविद्यानिवृत्तिरिति चेन्न । तथाऽभ्युपगमे परमात्मनोऽपि दृश्यतया व्यभिचारानिस्तारात् । आत्मनोऽपि वृत्तिव्याप्यत्वेऽपि फलव्याप्यताया अभावान्न दृश्यत्वमिति चेन्न । दत्तोत्तरत्वात् । विषयत्वाभावेऽप्यात्माकार- ज्ञानमात्मज्ञानं तेन भवेदविद्यानिवृत्तिरिति चेन्न । विचारागोचरत्वात् ।

ननु नात्मनो दृश्यत्वं न च व्याहति: स्वप्रकाशत्वेन स्वत: सिद्धे वृत्त्या दृश्यत्वनिषेधसम्भवात् । अत एवानुमा न मानम् । विपक्षे बाधकाभावात् । श्रुतयोऽपि यत्तदद्रेश्यमित्यादिविरोधाद्विशिष्टपरा इत्यतो बाधकान्तरमाह ॥ किञ्चेति । आत्मन इति शेष: । आत्मनो वृत्तिव्याप्यत्वाभावे तदाच्छादकमूलाज्ञाननिवृत्तिर्न स्यात् । ज्ञानस्याज्ञान- निवर्तकत्वे समानविषयत्वस्य तन्त्रत्वात् । न चेष्टापत्तिः । अज्ञाननिवृत्तेरेव त्वन्मते मोक्षत्वेन तदभावप्रसङ्गेन मोक्षशास्त्रवैय्यर्थ्यप्रसङ्गादित्यर्थः 1 नन्वात्मज्ञानेन तदज्ञाननिवृत्ति: । आत्मज्ञानं च नात्मविषयकं किन्तु तदन्याविषयकम् । तदज्ञाननिवर्तकत्वे ज्ञानस्य तदज्ञाननिवर्तकत्वे ज्ञानस्य तदन्याविषयकत्वस्य तन्त्रत्वात् । तथा च न कोऽपि दोष इत्यत आह ।। न चेति । त्वत्पक्ष इति परसम्मत्यर्थमुक्तम् । यत्किञ्चित्तदन्याविषयकत्वादिरूपम् । कुत इत्यत आह ।। षष्ठ्यर्थस्येति । ब्रह्मणो ज्ञानं ब्रह्मज्ञानमित्यत्र कर्तृकर्मणोः कृतीति कर्मणि षष्ठीविधा- नादन्यस्य च प्रकृतेऽसम्भवात् । न च तदन्याविषयकत्वं तदर्थः । गुरुत्वात् । पटादावपि तथात्वापत्त्या वृत्तिव्याप्यत्वं क्वापि नेत्यसिद्ध्यापत्तेः । घटपटो- भयज्ञानेन घटाज्ञानानिवृत्त्यापत्तेश्चेति भावः । अज्ञाननिवृत्तिप्रकारमाशङ्कते ।। यद्धीति । यच्छब्दस्य यद्वृत्तिरूपं ज्ञानमिति सम्बन्धः । श्रुतमयेन श्रवणजन्येन ज्ञानेन । तत्त्वं निश्चित्य निदिध्यासनं कुर्वतो यदपरोक्षज्ञानमखण्डाकारं वृत्तिरूपं जायते तेन तन्निवृत्तिरित्यर्थः । ननु न ब्रूमो वयमात्मनो वृत्तिव्याप्यत्वमेव नेति येनोक्तदोषः स्यात् । किन्तु फलव्याप्यत्वम् । तत्तु नात्मन इति द्वितीयं पक्षमाशङ्क्य निषेधति ॥ आत्मन इति ॥ दत्तोत्तरत्वादिति । फलं ज्ञातता व्यवहारो वेत्यादिना दृश्यत्वविकल्प- निरासप्रस्ताव एवोक्तत्वात्तत्रैवानुसन्धेयमिति भावः । स्यादेतत् । आत्मनो दृग्विषयत्वाभावेऽपि वेदान्तवाक्यजनितापरोक्षज्ञानस्याकारसमर्पकतया व्याव- र्तकत्वमङ्गीक्रियत एव । तेनात्माविषयकमप्यात्माकारं ज्ञानं तदज्ञानं निवर्तयिष्यतीति न कोऽप्यतिप्रसङ्गः । अनुमानश्रुत्यादीनां च तत्परतयोप- पत्तेः । न च तदविषयत्वे तदाकारत्वमपि कथमिति वाच्यम् । शशशृङ्ग- शब्दात्तदविषयकस्यापि तदाकारस्य ज्ञानस्योत्पत्तेः । न च शशशृङ्गस्य सर्वसामर्थ्यविधुरस्य कारकतापरपर्यायं विषयत्वमस्ति 1 तदिहापि वेदान्तवाक्यरूपकरणसामर्थ्यादेवात्माविषयकस्यापि तदाकारस्योत्पत्तौ दोषा- भावादिति भावेनाशङ्कते । विषयत्वेति । आत्मन इति सम्बन्धः ।

Loading…