दृश्यत्वहेतुनिरासः
तथा हि । आत्माकारमिति कोऽर्थः । आत्माकार एवाकारो यस्येतिऽऽत्माकार इवाकारो यस्येति वाऽऽत्माऽऽकारो यस्येति वा । नाद्यः । ज्ञानज्ञेययोरेकाकारताऽनुपलम्भात् । एकैव सत्ता ज्ञानज्ञेययो- राकारोऽस्तीति चेन्न । अनुगतसत्ताया अनङ्गीकारात् । सत्तयैकाकारत्वे च वेदान्तवाक्यजनितज्ञानमात्माकारमेव कुतः । घटाकारमपि किन्न स्यात् । न च परेणात्मनि सत्ता नामाकारोऽङ्गीक्रियते । निराकारताऽङ्गीकारात् । न द्वितीयः । अत्यन्तसादृश्यस्यानुपलम्भात् । किञ्चित्सादृश्यस्य प्रागिवाति- प्रसञ्जकत्वात् । तृतीयेऽपि पक्षे नात्मा साक्षाज्ज्ञानस्याकारः सम्भवति । आधाराधेयभावस्यासम्भवात् । अतः परिशेषाद्विषयतया व्यावर्तकत्वेन चात्मा ज्ञानस्याकार इवेति वक्तव्यम् । तदेव च विषयत्वमिति यत्किञ्चिदेतत् ।
।। आत्माकार एवेति । आत्मनो योऽयमाकारः स एवाकारो यस्येत्यर्थः । आत्माकार इवेति मध्यमपदलोपीसमासः । आत्मैवाकारो धर्मो यस्येति तृतीयकल्पार्थः । आत्मनोऽपि ज्ञानानन्दाद्यपरिच्छेद रूपासाधारणा- कारोऽभिमत उत सत्तारूपसाधारणाकार इति विकल्प्याद्ये दोषमाह || ज्ञानज्ञेययोरिति । द्वितीयमाशङ्कते । एकैवेति ।। अनुगतेति । अस्माभिरिति शेषः । अतिप्रसङ्गं चाह ।। सत्तयेति । अत्यन्तसादृश्यस्येति । ज्ञानानन्दा- द्यपरिच्छेदरूपस्येत्यर्थः ॥ किञ्चिदिति । सत्तयेत्यर्थः ॥ प्रागिवेति । वेदान्तज्ञानस्य घटाकारत्वं स्यादित्यर्थः ।। आधारेति । आकारो ह्याकारिणि वर्तते । न ह्यात्मा वृत्तिज्ञानमाश्रित्य तिष्ठति । येनात्मा ज्ञानस्याकारः स्यादित्यर्थः । तदाकारत्वखण्डनस्य प्रकृतोपयोगं दर्शयति ।। अत इति । तस्यैव विवरणं परिशेषादिति ।