दृश्यत्वहेतुनिरासः
ननु भवेदिदं यदि दृग्विषयत्वं दृश्यत्वम् । स्वप्रति- बद्धव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिर्दृश्यत्वम् । कथमेतादृशी दृश्यता कथितदूषणगणग्रस्ता स्यात् । मैवम् । अतिरिक्तपदेन पारमार्थिकभेदवत्त्वंऽऽविद्यकभेदवत्त्वं वा । नाद्यः । तवासिद्धेः । न द्वितीयः । ममासिद्धेः । सामान्यतः प्रयोग इति च प्रागेव परास्तम् । संविदपेक्षानियतत्वमात्रस्य हेतुत्वोपपत्तेर्व्यर्थविशेषणत्वं च । न चास्ति रजतेऽपि ज्ञानापेक्षा व्यवहाराय तस्याध्यस्ततयैव सिद्ध्यभ्युपगमादित्यवादिष्म । अत्यन्तासत्यनैकान्त्यं च । न च तदपि मिथ्येति वाच्यम् । तथा सति रजतादेरसद्विलक्षणत्वप्रतिपादन प्रयासवैय्यर्थ्यापातात् । न च बाध्यत्वमसतो युज्यते । अप्रतीत्यङ्गीकारात् । नापि तस्यानिर्वचनीयत्वम् । तत्र प्रमाणाभावादिति ॥ छ ॥ दृश्यत्व- हेतुनिरासः ॥ छ ॥
– आत्मनि व्यभिचारपरिजिहीर्षया प्रानिराकृतमपि दूषणान्तरं वक्तुं पुनराशङ्कते ॥ नन्विति । इदमनैकान्त्यादि ॥ स्वप्रतिबद्धेति । स्वोल्लेखीत्यर्थः । आत्मन्यद्वितीयत्वादिविशिष्टव्यवहारे विशेषणोपनायका- पेक्षया स्वातिरिक्तसंविदपेक्षत्वेऽपि निर्विकल्पकस्वव्यवहारे तदपेक्षाभावेन तत्र व्यभिचारवारणायैव नियतिपदम् ॥ कथितेति । असिद्धविरुद्धानैकान्ति- कादिदूषणगणस्पृष्टा कथं न कथमपीत्यर्थः ॥ तवेति । त्वया पारमार्थिक- भेदस्यानङ्गीकारादित्यर्थः । ममेति । अनिर्वचनीयभेदस्य मयाऽनङ्गीकारादिति भावः । नन्वाविद्यकपारमार्थिकसाधारणभेदवत्त्वं विवक्षितमित्यत आह । सामान्यत इति ॥ प्रागेवेति । न हि जलनभोनलिनयोर्नलिन- त्वसामान्यमस्तीत्यादिनेत्यर्थः । अनिर्वचनीयभेदश्च नभोनलिनायित इति भावः । किञ्च संवित्पदेन वृत्तिरुच्यते चैतन्यं वा । नाद्यः । घटादौ तवासिद्धेः । द्वितीये स्वातिरिक्तेति व्यर्थम् । विशेष्यस्यैवाव्यभिचारि- त्वादित्याह ।। संविदिति । यद्वा व्यवहारो हि व्यवहर्तव्यज्ञानमपेक्षते । न तु स्वातिरिक्तज्ञानमात्रम् । घटज्ञानेन पटव्यवहारापत्तेः तथा च तावतैवोपपत्तौ विशेषणं व्यर्थमित्याह || संविदिति । एवं स्वप्रतिबद्धेत्यादि- निरुक्तदृश्यत्वस्यान्यतरासिद्धिव्यर्थविशेषणते अभिधायं स्वव्यवहारे स्वातिरिक्तसंविदपेक्षत्वस्यात्मनि विपक्षे सत्त्वं सिद्धवत्कृत्य साध्यसम्बन्धा- भावोपपादनाय तस्य सपक्षे वृत्तित्वमाह । न चेति । किञ्चेति चार्थः । कुत इत्यतस्तस्य प्रातिभासिकत्वेन मनोवृत्तेर्वा मनोवृत्तिप्रतिफलितचैतन्यस्य वाsपेक्षा नेति प्रागेवावोचामेत्याह । अध्यस्ततयैवेति । स्वप्रतिबद्धेत्यादि- निरुक्तहेतोर्व्यभिचारं चाह || अत्यन्तेति । तत्र साध्यसत्त्वान्न दोष इत्याशङ्क्याह ।। न चेति । तथा सत्यसतोsपि मिथ्यात्वे । शुक्त्यध्यस्तर- जतरज्जुसर्पादेः सदसद्वैलक्षण्यरूपमिथ्यात्वं वदता त्वया कथमसतोऽपि मिथ्यात्वं वक्तुं शक्यमिति भावः । किञ्च मिथ्यात्वमसत्त्वं वा बाध्यत्वं वाऽनिर्वचनीयत्वं वा । आद्यस्य तत्र सत्त्वेऽपि त्वया तदनङ्गीकारात् । द्वितीयतृतीययोश्च तत्राभावमाह । न चेति । नासत्त्वस्यास्ति बाधकमिति त्वदुक्तेरेवेति भावः । इतिशब्दो दृश्यत्वहेतुदूषणसमाप्तौ ॥ छ ॥