जडत्वहेतुनिरासः
न च जडत्वहेतुरपि निगदितदूषणगणलङ्घने जङ्घालः । तथा हि । किमिदं जडत्वं नाम । ज्ञानानाधारत्वं वाऽनात्मत्वं वाऽज्ञानरूपत्वं वाऽस्वप्रकाशत्वं वा । नाद्यः । विशिष्टात्मनि पक्षनि- क्षिप्तेऽसिद्धत्वात् । असदात्मनोर्विपक्षभूतयोश्च वर्तमानत्वात् । न द्वितीयः । अनात्मत्वपदेनात्मातिरिक्तत्वं वाऽऽत्मत्वानाधारत्वं वा विवक्षितम् । नाद्यः । तवासिद्धेः । न हि त्वत्पक्षे परमात्मनो जगदतिरिक्तमस्ति । परमार्थतस्तदभावेऽप्यनाद्यविद्याविलसितो भेदोऽस्तीति चेत्तर्ह्यस्माकमसिद्धो हेतुः । असति व्यभिचारश्च ।
ननु माऽस्तु दृश्यत्वं हेतुः । जडत्वं हेतुर्भविष्यतीत्यतस्त- दप्युक्तदूषणेनैव निरस्तमित्याह । न च जडत्वेति । जङ्घालो जङ्घावान् । प्राणिस्थादातो लजन्यतरस्यामिति मत्वर्थे लच् । तदप्युक्तदूषणानि नातिक्रामेदित्यर्थः । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तान्युपपादयितुं प्रति- जानीते । तथा हीति ।। ज्ञानानाधारत्वमिति । ज्ञातृत्वाभाव इत्यर्थः । अज्ञानरूपत्वं ज्ञानरूपत्वाभावः । अस्वप्रकाशत्वं स्वप्रकाशत्वाभावः ॥ विशिष्टेति । अन्तःकरणावच्छिन्नस्यैवाहंशब्दितस्यात्मनोज्ञातृत्वेन मिथ्यात्वेन त्वदभिमते तत्र ज्ञातृत्वाभावरूपहेतोरभावेन भागासिद्धेरित्यर्थः । किञ्च मिथ्यात्वेन त्वदनभिमते निर्धर्मकेऽत्यन्तासति शुद्धात्मनि च ज्ञातृत्वाभावरूपहेतोः सत्त्वेन व्यभिचारश्चेत्याह । असदिति । न च शुद्धात्मनि कल्पितं ज्ञातृत्वमस्तीति वाच्यम् । कल्पितेन हेत्वभावेन व्यभिचारापरिहारात् । असति कल्पितस्याप्यभावात् । न च शुद्धस्याप्यात्मनो निर्धर्मकत्वादेव ज्ञानानाधारत्वमपि नेति वाच्यम् । निर्धर्मकत्वरूप- हेतोर्ज्ञानाधारत्वाभावरूपसाध्यस्य च भावाभावाभ्यां व्याघातेनाभावरूपधर्म- निषेधायोगादिति भावः । अनात्मत्वं जडत्वमित्यत्र नञोऽन्योन्याभावोऽर्थ उतात्यन्ताभावो वेति भावेन विकल्पयति ।। अनात्मत्वेति । आद्येऽप्यति- रिक्तपदेन तात्त्विकभेदवत्त्वं वाऽतात्त्विकभेदवत्त्वं वेति विकल्पौ हृदि निधायाद्य आह || तवेति । तामेवोपपादयति ।। न हीति । तदनन्यत्व - मारम्भणशब्दादिभ्य इत्यधिकरणे तत्त्वतः कार्यस्य जगतः कारणस्यात्म- नोऽनन्यत्वं वाचारम्भणं विकारो नामधेयमिदं सर्वं यदयमात्मेति श्रुतेरुच्यत इति त्वयैवोक्तेः कथं तयोस्तत्त्वतो भेदः स्यादित्यर्थः । द्वितीयं शङ्कते ॥ परमार्थतस्तदभावेऽपीति । पारमार्थिकभेदाभावेऽपीत्यर्थः । अविद्याविल- सितोऽविद्यानिमित्तभ्रमविषय इत्यर्थः । ननु भेदस्यानादित्वात्कथं दोषजन्य- भ्रमविलसितत्वमित्यत उक्तमनादीति । अविद्याया अप्यनादित्वादनाद्य- ध्यासविषयता युक्तेत्यर्थः । आविद्यकभेदस्यास्माभिर्जगदात्मनोरनङ्गीकारा- दन्यतरासिद्धो हेतुरित्याह ॥ तर्हीति । ननु तात्त्विकाविद्यकसाधारण्ये- नात्मातिरिक्तत्वमात्रं हेतुरस्तु । तथा च नान्यतरासिद्धिः । अत्माति- रिक्तत्वमात्रस्योभयसम्मतत्वादिति चेन्न । तात्त्विकाविद्यकभेदद्वयाभावेन सामान्यस्याभावादित्युक्तत्वादिति मन्वानो दूषणान्तरं चाह || असतीति । त्वयाऽसति मिथ्यात्वानङ्गीकारादिति भावः । ननु कथमसत्यात्मभेदस्तस्य धर्मिस्वरूपत्वेन नि: स्वरूपासत्स्वरूप त्वायोगादिति चेन्न । परमते तस्य धर्मिस्वरूपत्वाभावेनासन्नात्मेत्य- बाधितप्रतीत्याऽऽत्मभेदस्य सत्त्वात् । अन्यथाऽऽत्मन्यसद्वैलक्षण्यासिद्धेः । पररीत्या च तस्योपपादनात् । यद्वा सस्वरूपभावाभावनिष्ठभेदस्य तदुभय- स्वरूपत्वेऽपि नि:स्वरूपासन्निष्ठस्य तदभावेऽपि तन्निष्ठत्वोपपत्तेः । अत एव भावभावस्वरूपत्वान्नान्योन्याभावता पृथगिति भावाभावस्वरूपत्वमेवोक्तम् ।