जडत्वहेतुनिरासः
न द्वितीयः । आत्मत्वस्य प्रागुक्तप्रकारान्तर्भावे साध्याविशिष्टतासिद्ध्यनैकान्त्यान्यतमापातात् । एतेन यत्त्वयाऽऽत्म- त्वमभिप्रेतं तदेवास्त्वस्माकमिति परिहृतम् । अस्माकमुक्तप्रकारान्य- तरसङ्ग्रहसम्भवात् । न तृतीयः । वृत्तिज्ञानभागेऽसिद्धत्वात् ।
आत्मत्वानाधारत्वं जडत्वमिति द्वितीयस्य द्वितीयं निराह || न द्वितीय इति । तत्र हेतुमाह । आत्मत्वस्येति ॥ प्रागुक्तेति । सत्त्वविरहेऽस- त्त्वमसत्त्वविरहे सत्त्वमित्यत्रासत्त्वविरहसत्त्वविरहयोर्व्याप्ति समर्थनप्रस्ता- वोक्तात्मविकल्पेष्वन्यतमाङ्गीकारे साध्याविशिष्टतादिदोषाः प्रादुष्युरित्यर्थः । तथा हि । किमात्मत्वानाधारत्वंमात्मत्वरूपजात्यनाधारत्वं वा सत्त्वानाधारत्वं वाऽबाध्यत्वानाधारत्वं वा ज्ञानत्वानाधारत्वं वा ज्ञानाधारत्वानाधारत्वं वा स्वप्रकाशत्वानाधारत्वं वाऽऽत्मपदवाच्यत्वानाधारत्वं तल्लक्ष्यत्वानाधारत्वं वा । आद्ये आत्मनि व्यभिचारः । तस्यैकव्यक्तित्वेन तत्रात्मत्वरूपजातेरयोगात् । विशिष्टात्मनां भेदेऽपि तेषां पक्षनिक्षिप्ततया भागासिद्धेः । न द्वितीयतृतीयौ । साध्याविशिष्टतापत्तेः । न चतुर्थपञ्चमौ । यथाक्रमं वृत्तिज्ञाने विशिष्टात्मसु च भागासिद्धेः । शुद्धात्मनो ज्ञानत्वस्य निरसिष्यमाणत्वेन निर्धर्मकत्वेन ज्ञानाधारत्वाभावेन चानैकान्त्यात् । न षष्ठः । अस्वप्रकाशत्वरूपहेतुखण्डन प्रस्तावोक्तरीत्याऽनैकान्त्यापत्तेः । न सप्तमः । अवाच्ये आत्मन्यनैकान्त्यात् । आत्मपदवाच्ये देहादावसिद्धेश्व । नाष्टमः । इन्द्रियादावात्मपदलक्ष्ये भागासिद्धेरिति । अत्रासिद्धिपदं भागासिद्धिपरम् । अतो न कश्चिद्दोषः । ननु भवतो यदात्मत्वमभिप्रेतं तदेव ममापि । तथा च तदनाधारत्वं हेतुर्भविष्यतीत्यत आह ।। एतेनेति । ॥ एतेनेति । उक्तविधयाऽऽत्मत्वानाधारत्व- दूषणेनेत्यर्थः । कथं परिहृतमित्यत आह । अस्माकमिति । आत्मत्वं जातिर्वा सत्त्वं वेत्याद्युक्तेष्वष्टसु कल्पेष्वन्यतमस्वीकारेऽपि दोषाभावा- दित्यर्थः । अत्रान्यतरेति प्राग्वद्बोध्यम् । अज्ञानरूपत्वं जडत्वमिति कल्पं प्रत्याख्याति । न तृतीय इति । न च विवरणरीत्या वृत्तेर्न ज्ञप्तित्वमिति वाच्यम् । धर्माधर्मादिकं जानामीत्यनुभवेन तस्या ज्ञप्तित्वसिद्धेरिति प्रागेवावोचम् ।