जडत्वहेतुनिरासः
आत्मनो ज्ञानस्वरूपता न निर्वाह्यतामारोहति । तथा हि । तज्ज्ञानं सविषयं निर्विषयं वा । आद्ये स्वविषयं परविषयं वा । नाद्यः । स्ववृत्तिविरोधात् । न द्वितीय: । मोक्षे ज्ञानाभावप्रसङ्गात् । नोत्तरः । ज्ञानत्वस्यैवाभावप्रसङ्गात् । निर्विषयज्ञानरूपत्वे चास्तु प्रपञ्चेऽपि तादृग्ज्ञान- रूपत्वमित्यसिद्धिप्रसङ्गः ।
आत्मनि ज्ञानरूपत्वाभावहेतोर्व्यभिचारं च वक्तुमात्मनो ज्ञानत्व- निरासाय प्रस्तावं करोति ॥ आत्मन इति । त्वन्मत इति शेषः ॥ तज्ज्ञानमिति । आत्मरूपं ज्ञानमित्यर्थः ॥ स्ववृत्तीति । स्वस्यैव स्वाकारवृत्तिरूपत्वायोगात् । विषयत्वं हि पराक्त्वम् । विषयत्वं तु प्रत्युक्त्वं तदुभयमेकत्र विरुद्धम् । न हि स्वनखाग्रेण स्वनखाग्रमेव छेद्यमुपलब्धमिति त्वयाऽङ्गीकारादिति भावः । ननु स्वस्य स्वकर्मत्वाभावेऽपि स्वव्यवहारजनन- योग्यत्वरूपं स्वविषयत्वमस्ति । तत्स्वभावस्यापि स्फुरणस्य तद्व्यवहार- जनकतया तद्विषयत्वमिति चित्सुखोक्तेरिति चेन्न । घटादावप्येतदन्यस्य ज्ञप्तिकर्मत्वस्याभावात् । न च घटादौ ज्ञप्तिकारकत्वमेव तद्विषयत्वमिति वाच्यम् । घटादेरपीन्द्रियसन्निकर्ष एवोपयुक्ततया ज्ञानजनकत्वाभावादिति भावः । परविषयत्वमिति कल्पं निराह । न द्वितीय इति ।। मोक्ष इति । तत्र त्वन्मते पराभावेन परविषयत्वस्य दुर्निरूपत्वादिति भावः । न च मोक्षे पराभावेऽप्यतीतपरविषयत्वेन ज्ञानत्वं स्यादिति वाच्यम् । त्वन्मते वर्तमानस्यैव वृत्तिरूपज्ञानज्ञातव्यस्य व्यवधानमन्तरेण साक्षाच्छुद्धचैतन्य- रूपज्ञानविषयत्वात् । नन्वतीतमप्यतीतत्वेन चैतन्यं विषयीकरोतीति चेत्तर्हि वन्हिरासीदित्याद्यनुमिताविव शुद्धात्मरूपज्ञाने मोक्षेऽतीतविषयोल्लेखरूपोप्ल- वापातादिति । निर्विषयं वेति द्वितीयं पक्षं क्षिपति ।। नोत्तर इति । ननु निर्विषयत्वं न ज्ञानत्वाभावापादकम् । अतीतज्ञाने तुच्छज्ञाने च व्यभिचारादिति चेत् । भ्रान्तोऽसि । न हि निर्विषयत्वं नाम तद्विषयस्यावर्त - मानत्वमसत्त्वं वाऽभिमतम् । किन्तु विषयानुल्लेखित्वम् । न ह्यतीतादिज्ञानं विषयानुल्लेखि । येन व्यभिचारः स्यात् । नन्वात्मरूपं ज्ञानं परविषयत्वेनैव ज्ञानं स्यात् । न च मोक्षे पराभावो दोषः । तथाऽपि संसारदशायां परसत्त्वेन तद्विषयकतया ज्ञानत्वोपपत्तेः । ज्ञानत्वे च सविषयकत्वमेव तन्त्रम् । न तु यावत्सत्त्वं सविषयकत्वम् । गौरवात् । तथा च मोक्षे निर्विषयत्वेऽपि संसारदशायां सविषयत्वेन कथं मोक्षे ज्ञानाभावप्रसङ्ग इति । मैवम् । सप्रतियोगिकेऽभावादौ सविषयके इच्छादौ घटादिज्ञाने च सविषयकत्वादेः स्वभावत्वदर्शनात् । किञ्च स्वरूपानन्दस्य परत्वाभावेन परमपुरुषार्थे मोक्षे आनन्दाप्रकाशापाताच्च । अपि च । सविषयकत्वरूपज्ञानस्वभावाभावेऽपि ज्ञानत्वे घटादेरपि ज्ञानत्वापत्त्या ज्ञानरूपत्वाभावरूपजडत्वहेतोरसिद्धिरित्याह ॥ निर्विषयज्ञानरूपत्वे चेति । एवं ज्ञात्रभावेनापि ज्ञानत्वाभावोपपादनं त्वन्यत्रोक्तं बोध्यम् ।