Join Tattvasudhā to study.

जडत्वहेतुनिरासः

§9Mūla

न चतुर्थः । स्वकर्मकसंविद्रूपतामन्तरेण स्वप्रकाशान्तर - स्योत्तरत्र वारयिष्यमाणत्वात् । स्वकर्मकप्रकाशत्वस्यात्मन्यपि तवाभा- वादिति । एतेनाचेतनत्वं जडत्वमिति निरस्तम् । उक्तपक्षाबहिर्भावात् । अस्माभिर्ज्ञातृत्वानाधारत्वस्य जडत्वेनाभिलापान्नास्मत्प्रतिबन्दी ॥ छ ॥ जडत्वहेतुनिरासः ॥ छ ॥

अस्वप्रकाशत्वं जडत्वमिति पक्षं निराचष्टे । न चतुर्थ इति । अस्य प्रानिराकरणेऽपि प्रकारान्तरेणात्मनि व्यभिचारेण दुदूषयिषुस्तत्र हेतुसत्त्वं वक्तुमाह ॥ स्वेति ॥ स्वप्रकाशान्तरस्येति । पराभिमतस्यावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वादिरूपस्येत्यर्थः । उत्तरत्रेति । विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनुमाने हेतोर्दृष्टान्ते साधनवैकल्यनिरासप्रस्ताव इत्यर्थः । तथा च व्यभिचार इति शेषः । ननु स्वकर्मकसंविद्रूपत्वलक्षणस्यापि स्वप्रकाशत्वस्य सत्त्वात्कथं हेतोर्व्यभिचार इत्यतः परेण तदनङ्गीकारादित्याह ।। स्वेति । इतिशब्दो जडत्वहेतुविकल्पदूषणसमाप्तौ । कल्पचतुष्टयदूषणेनैव तत्त्वसिद्धयुक्तमचेतनत्वं जडत्वमित्यपि प्रत्युक्तमित्याह । एतेनेति । कथमित्यत आह ।। उक्तेति । ननु भवतो यज्जडत्वं तदेव ममाप्यभिमतमित्यत आह ।। अस्माभिरिति । तच्च त्वन्मते न सम्भवतीति दूषितमिति भावः || || ।

Loading…